________________
१३४
श्राद्धविधिकौमुदीसङ्क्षेपः उष्णकाले त्रिः शेषकाले च द्विदृढबृहत्गलनकसङ्घारकसत्यापनादियुक्त्या जलगालने धान्येन्धनशाक-ताम्बूलफलादिशोधनादौ च सम्यक्प्रवृत्तिः । अक्षत-पूग-खारिक-वाल्हउलि-फलिकादेर्मुखे क्षेपः । नालकेन धारया वा जलादेः पानम् । चलनोपवेशन-शयन-स्नान-वस्तुमोचन-ग्रहणरन्धन-खण्डन-पेषण-घर्षण-मलमूत्रश्लेष्मगण्डूषादिजलताम्बूलेत्यादौ सम्यगयतना, धर्मकर्मण्यनादरो, देवगुरुसार्मिकेषु विद्वेषः, चैत्यादिद्रव्यपरिभोगो, निर्धर्मसंसर्गो, धार्मिकादीनामुपहासः, कषाय-बहुलता, बहुदोषक्रयविक्रयः, खरकर्मसु पापमयाधिकारादौ च प्रवृत्तिः, एवमादिधर्मविरुद्धम् । इह मिथ्यात्वादीनि प्रायोऽर्थदीपिकायां विवृतानि । देशकालादिविरुद्धानामपि धर्मवतामाचरणे धर्मनिन्दोपपत्तेर्धर्मविरुद्धतैव । तदेवं पञ्चविधं विरूद्धं श्राद्धेन परिहार्यमिति 'देशविरुद्धत्यागः । ..
तथोचितस्योचितकृत्यस्याचरणं करणं उचिताचरणम् । तच्च पित्रादिविषयं नवविधमिहापि स्नेहवृद्धिकीर्त्यादिहेतुहितोपदेशमालागतगाथाभिः प्रदर्श्यते ।
सामन्ने मणुअत्ते, जं केई पाउणंति इह कित्ति । तं मुणह निव्विअप्पं, उचिताचरणस्स माहप्पं ॥ तं पुण पिइमाइसहोअरेसु पणइणिअवच्चसयणेसु। .
गुरुजणनायरपरतित्थिएसु पुरिसेण कायव्वं ॥ तत्र पितृविषयं कायवाङ्मनांसि प्रतीत्य त्रिविधमौचित्यं क्रमेणाह
पिउणो तणुसुस्सूसं, विणएणं किंकरुव्व कुणइ सयं ।
वयणंपि से पडिच्छइ, वयणाओ अपडिअं चेव ॥ तनुशुश्रूषां चरणक्षालनसंवाहनोत्थापननिवेशनादिरूपां देशकालसात्म्यौचित्येन भोजनशयनीयवसनाङ्गरागादिसम्पादनरूपां च विनयेन, न
१. देशादि इति को० ह० प्र० पाठः ।