________________
प्रथमः प्रकाशः
१३३
सवि उज्जममाणं, पंचेव करिति रित्तयं समणं । अप्पथुई परनिंदा, जिब्भोवत्था कसाया य ॥ जइ संति गुणा नणु, अभणिआवि काहिति अत्तउक्करिसं । अह तेवि न संति मुहा, अत्तुक्करिसेण किं तेण ॥ मित्ता हसंति निंदति, बंधवा गुरुजणा उविक्खंति । पिअरोपि न बहु मन्नंति, अप्पबहुमाणिणं पुरिसं ॥ परपरिभवपरिवादादात्मोत्कर्षाच्च बध्यते कर्म । नीचेर्गोत्रं प्रतिभवमनेकभवकोटिदुर्मोचम् ॥ पनिन्दा महापापं, परपापान्यहो यतः ।
अकर्तृत्वेऽपि लुम्पन्ति, तत्की जरती यथा ॥ अत्रासदोषोक्तौ लौकिकज्ञातम् । सद्दोषोक्तौ राज्ञोऽग्रे वैदेशिकाऽऽनीतत्रिकपालीपरीक्षा पण्डितकृता । यथा-एकस्य कर्णे क्षिप्तं सूत्रं मुखे निर्गतं तस्य श्रुतप्रलापिनो मूल्यं काणकपर्दिका । अन्यस्याऽन्यकर्णे निर्गतं तस्य श्रुतविस्मृतस्य लक्षम् । तृतीयस्य गले गतं तस्य हृदि श्रुतस्थितेर्न मूल्यम् । तथा ऋजूनामुपहासो गुणवत्सु मत्सरः, कृतघ्नत्वं, बहुजनविरुद्धैः सह सङ्गतिः, जनमान्यानामवज्ञा, सदाचाराणां व्यसनोपनिपाते तोषः, शक्तौ . तदप्रतीकारः, देशाधुचिताचारलङ्घन, वित्ताद्यनुसारेणात्युद्भटातिमलिंनवेषादिकरणम्, एवमादिलोकविरुद्धमिहाप्यपकीर्त्यादिकृत् । यदुवाच वाचकमुख्यः. लोकः खल्वाधारः, सर्वेषां धर्मचारिणां यस्मात् ।
तस्माल्लोकविरुद्धं, धर्मविरुद्धञ्च सन्त्याज्यम् ॥ तत्त्यागे च जनानुरागस्वधर्मसुखनिर्वाहादयो गुणाः । आह च
एआई परिहरंतो, सव्वस्स जणस्स वल्लहो होइ।
जणवल्लहत्तणं पुण, नरस्स सम्मत्ततरूबीअं ॥ तथा मिथ्यात्वकृत्यं, निर्दयं गवादेस्ताडनबन्धनादि, निराधारं यूकादेरातपे च मत्कुणादेः क्षेपः, शीर्षे महाकङ्कतक्षेपः, लिक्षास्फोटनादि,