________________
१३५
प्रथमः प्रकाशः तु परोपरोधावज्ञादिभिः, स्वयं करोति, न तु भृत्यादिभ्यः कारयति । यत्तः
गुरोः पुरो निषण्णस्य, या शोभा जायते सुते । ... · उच्चैः सिंहासनस्थस्य, शतांशेनापि सा कुतः ॥
अपडिअंति वदनादपतितमुच्चार्यमाणमेवाऽऽदेशः प्रमाणमेष करोमीति सादरं प्रतीच्छति पितृवचनप्रमाणीकरणार्थम् । राज्याभिषेकसमये एव वनवासार्थोपस्थितश्रीरामवत्, न पुनरनाकर्णित-शिरोधूनन-कालक्षेपार्द्धविधानादिभिरवजानाति ।
चित्तं पिहु अणुअत्तइ, सव्वपयत्तेण सव्वकज्जेसु।
उवजीवई बुद्धिगुणे, निअसब्भावं पयासेइ ॥ ... स्वबुद्धिविचारितमवश्यविधेयमपि कार्यं तदेवारभते, यत् पितुर्मनोऽनुकूलमिति भावः । बुद्धिगुणान् शुश्रूषादीन् सकललौकिकलोकोत्तरव्यवहारगोचरांश्चोपजीवत्यभ्यस्यति । बहुदृश्वानो हि पितृप्रभृतयः सम्यगाराधिताः प्रकाशयन्त्येव कार्यरहस्यानि । . . तदाह
तत्तदुत्प्रेक्षमाणानां, पुराणैरागमैविना । अनुपासितवृद्धानां, प्रज्ञा नातिप्रसीदति ॥ यदेकः स्थविरो वेत्ति, न तत्तरुणकोटयः । यो नृपं लत्तया हन्ति, वृद्धवाक्यात्स पूज्यते ॥ श्रव्यं वाक्यं हि वृद्धानां, प्रष्टव्या ये बहुश्रुताः । हंसयूथं वने बद्धं, वृद्धबुद्ध्या विमोचितं ॥ सद्भावं चित्ताभिप्रायम् ।
आपुच्छिउं पयट्टइ, करणिज्जेसु निसोहिओ ठाइ । खलिए खरंपि भणिओ, विणीअयं न हु विलंघेइ ॥