________________
१३०
श्राद्धविधिकौमुदीसक्षेपः लक्षभोज्योद्धरितान्नादि-सुपात्रदानदायिनि:स्वद्विजजीवं सौधर्मे सुरीभूय च्युतं श्रेणिकसुतं राजकन्यापञ्चशतीपरिणेतारं नन्दिषेणकुमारं दृष्ट्वा जातजातिस्मृतिरपि प्रथमनरकगामी २। अन्यायायातविभवसत्पात्रपरिपोषरूपस्तृतीयः, सुक्षेत्रोप्तसामान्यबीजफलप्ररोहवदायतौ. सुखप्रसवानुबन्धितया राज्ञां व्यापारिणां बह्वारम्भोपार्जितद्रव्याणां चानुज्ञातः । यतः
काशयष्टिरिवैषा श्रीरसारा विरसाऽप्यहो । नीतेक्षुसमतां धन्यैः सप्तक्षेत्रीनिवेशनात् ॥ खलोऽपि गवि दुग्धं स्याद् दुग्धमप्युरगे विषम् । पात्रापात्रविशेषेण, तत्पात्रे दानमुत्तमम् ॥ सा साइ तं पि जलं, पत्तविसेसेण अंतरं गुरु। .
अहिमुहपडिअं गरलं, सिप्पउडे मुत्तअं होइ ॥ अत्रार्बुदोपरि चैत्यकारमन्त्रीविमलादयो दृष्टान्ताः प्रतीताः । महारम्भाद्यनुचितवृत्तिसञ्चितं हि द्रव्यं सुक्षेत्रवापादि विना दुष्कीर्तिदुर्गतिफलमेव मम्मणश्रेष्ठ्यादिवत् । अन्यायाजितार्थकुपात्रपोषरूपश्चतुर्थ इह साधुजनगर्हित्वात् परत्र कुगतिनिबन्धनत्वाच्च त्याज्य एव विवेकिनाम् । यतः
अन्यायोपात्तवित्तस्य, दानमत्यन्तदोषकृत् । धेनुं निहत्य तन्मांसैर्ध्वाङ्क्षाणामिव तर्पणम् ॥ अन्यायोपार्जितैर्वित्तैर्यत् श्राद्धं क्रियते जनैः । तृप्यन्ते तेन चाण्डाला, बक्कसा दासयोनयः ॥ दत्तः स्वल्पोऽपि भद्राय, स्यादर्थो न्यायसङ्गतः। अन्यायात्तः पुनर्दत्तः, पुष्कलोऽपि फलोज्झितः ॥ अन्यायोपात्तवित्तेन, यो हितं हि समीहते ।
भक्षणात्कालकूटस्य, सोऽभिवाञ्छति जीवितम् ॥ इह चान्यायार्थोपजीविनो गृहस्थादेः प्रायेणाऽन्यायकलहाऽहङ्कारपापबुद्धिप्रवृत्तिरेव रश्रेष्ठ्यादिवत् । यथा