________________
प्रथमः प्रकाशः
निर्द्रव्यसद्द्रव्ययोरयं विभाग इत्यप्येके । तथा
अंकसन इट्ठे, कस्स य लच्छी न वल्लहा हो । अवसरपत्ताइं पुणो दुन्नवि तणयाउ लहुअंति ॥
यशस्करे कर्मणि मित्रसङ्ग्रहे, प्रियासु नारीष्वधनेषु बन्धुषु । धर्मे विवाहे व्यसने रिपुक्षये, धनव्ययोऽष्टासु न गण्यते बुधैः ॥ यः काकणीमप्यपथप्रपन्नामन्वेषते निष्कसहस्रतुल्याम् । काले च कोटिष्वपि मुक्तहस्तस्तस्यानुबन्धं न जहाति लक्ष्मीः ॥
धर्म्ये व्ययश्च श्रीवशीकरणं तेनैव तस्याः स्थिरीभावात् । भाष्यते
ऽपि -
मा मंस्थाः क्षीयते वित्तं, दीयमानं कदाचन । कूपारामगवादीनां, ददतामेव संपदः ॥
१२९
अत्र विद्यापतिश्रेष्ठि दृष्टान्तः एवं चार्थोपार्जननमशङ्कनीयत्वप्रशंसनीयत्वहान्यविषयत्व-सुखसमाधिवृद्धिहेतुत्वपुण्यकार्योपयोगित्वादिनेहलोकपरलोकहितम् । पठितञ्च
•
सर्वत्र शुचयो धीराः, स्वकर्मबलगर्विताः । कुकर्मनिहतात्मानः, पापाः सर्वत्र शङ्किताः ॥
अत्र न्यायान्यायधनार्जने मित्रद्वयवृत्तम् । अत्र न्यायार्जितवित्ते सोमनृपप्रबन्धः ।
इह न्यायार्जितवित्तसत्पात्रविनियोगाभ्यां चतुर्भङ्गी । तत्र न्यायागतविभवसत्पात्रविनियोगरूपः प्रथमो भङ्गोऽक्षेपेण पुण्यानुबन्धिपुण्यहेतुत्वात्सुदेवत्व भोग भूमिमनुष्यसम्यक्त्वादिप्राप्त्या आसन्नसिद्धिफलो धनसार्थवाहशालिभद्रादिवत् १। न्यायागतद्रव्य - यत्तत्पात्र पोषरूपो द्वितीयो भङ्गः, पापानुबन्धिपुण्यहेतुत्वाद्यत्र तत्र भवेषु भोगमात्रफलोऽपि प्रान्ते विरसफल एव यथा लक्ष्यभोज्यकृद् विप्रो बहुभवेषु किश्चिद्भोगादिसुखानि भुक्त्वा सेचनकनामा सर्वाङ्गसुलक्षणो भद्रहस्ती जातो,