________________
१२८
श्राद्धविधिकौमुदीसझेपः किमप्यसञ्चिन्त्योत्पन्नमर्थमपव्येति स तादात्विकः १। यः पितृपैतामहमर्थमन्यायेन भक्षयति स मूलहरः २। यो भृत्यात्मपीडाभ्यामर्थं सञ्चिनोति, न च क्वचिदपि व्ययते स कदर्यः ३१. तत्र तादात्विकमूलहरयोरर्थभ्रंशेन धर्मकामयोविनाशान्नास्ति कल्याणम् । कदर्यस्य त्वर्थसङ्ग्रहो राजदायादभूमितस्कारादीनां निधिः, न तु धर्मकामयोर्हेतुः । यतः
दायादाः स्पृहयन्ति तस्करगणा मुष्णन्ति भूमिभुजो, गृह्णन्तिच्छलमाकलब्य हुतभुग भस्मीकरोति क्षणात् । अम्भः प्लावयते क्षितौ विनिहितं यक्षा हरन्ते हठात्, : दुर्वृत्तास्तनया नयन्ति निधनं धिग् बह्वधीनं धनम् ॥ मृत्युः शरीरगोप्तारं, रक्षितारं धनं धरा । .. दुश्चारिणीव हसति, स्वपति पुत्रवत्सलम् ॥. कीटिकासञ्चितं धान्यं मक्षिकासञ्चितं मधु । ।
कृपणोपार्जिता लक्ष्मीः परैरेवोपभुज्यते ॥ . अतस्त्रिवर्गस्य बाधा गृहस्थस्य कर्तुमनुचिता, यदा तु दैववशाद्भवति, तदोत्तरोत्तरबाधायां पूर्वपूर्वबाधा. रक्षणीया ।, तत्र कामबाधायां धर्मार्थयोर्बाधा रक्षणीया, तयोः सतोः कामस्य सुकरोत्पादत्वात् । कामार्थयोर्बाधायां धर्मो रक्षणीयो धर्ममूलत्वादर्थकामयोः । उक्तञ्च
धर्मश्चेन्नावसीदेत, कपालेनापि जीवतः । आढ्योऽस्मीत्यवगन्तव्यं, धर्मवित्ता हि साधवः ॥ त्रिवर्गसंसाधनमन्तरेण, पशोरिवायुर्विफलं नरस्य ।
तत्रापि धर्म प्रवरं वदन्ति, न तं विना यद्भवतोऽर्थकामौ ॥ आयोचितश्च व्ययः । यन्नीतिशास्त्रम्
पादमायान्निधिं कुर्यात् पादं वित्ताय कल्पयेत् । धर्मोपभोगयोः पादं, पादं भर्त्तव्यपोषणे ॥ केचित्त्वाहु:आयादर्द्व नियुञ्जीत, धर्मे समधिकं ततः । शेषेण शेषं कुर्वीत, यत्नतस्तुच्छमैहिकम् ॥