________________
प्रथमः प्रकाशः
१२७ भिलषन् अपि कदाप्याप्नोति । भोजनाच्छादनादि तु प्राप्नोत्यपि । वदवादिष्म
स्वानुमित्या मितीकुर्यादिच्छामिच्छाफलार्थिकः। . लोकेऽपि लभ्येत मितं, मार्गितं नाऽमितं क्वचित् ॥ ततः स्वभाग्याद्यनुसारेणैवेच्छां कुर्याद्, अधिकाधिकेच्छायां तु तदलाभात्तदाऽतिदुःखितैव स्यात् । कोटीपूरणार्थ-बहुक्लेशसासहिनवनवतिटङ्कलक्षाधिपधनश्रेष्ठ्यादिवत् । आख्यातं च
आकाङ्क्षितानि जन्तूनां, सम्पद्यन्ते यथा यथा । तथा तथा विशेषाप्तौ, मनो भवति दुःखितम् ॥ आशादासस्तु यो जातो, दासस्त्रिभुवनस्य सः ।
आशा दासीकृता येन, तस्य दास्ये जगत्त्रयी ॥ गृहस्थेन चान्योन्याप्रतिबन्धेन त्रिवर्गोऽपि साध्यः । यतः
धम्मो अत्थो कामो, पुरिसत्था वन्निया तओ लोए ।
तिण्हंपि जहावसरं, सेवा संसिज्जइ बुहेहिं ॥ .: तत्र धर्मार्थयोरुपघातेन तादात्विकविषयसुखलुब्धो वनगज इव को नाम न भवत्यास्पदमापदाम् । न च तस्य धनं धर्मः शरीरं वा यस्य कामेऽत्यन्तासक्तिः । धर्मकामातिक्रमाद्धनमुपाजितं परेऽनुभवन्ति, स्वयं तु परंः पापस्य भाजनं सिंह इव सिन्धुरवधात् । अर्थकामातिक्रमेण च धर्मसेवा यतीनामेव धर्मो न गृहस्थानाम् । न च धर्मबाधयाऽर्थकामौ सेवेत, यतो बीजभोजिनः कुटुम्बिन इव नास्त्यधार्मिकस्यायत्यां किमपि कल्याणम् । उक्तञ्च सोमनीतावपि. स खलु सुखी योऽमुत्रसुखाविरोधेनेहलोकसुखमनुभवतीति ।
एवमर्थबाधया धर्मकामौ सेवमानस्य ऋणाधिकत्वं, कामबाधया धर्मार्थो सेवमानस्य गार्हस्थ्यसुखाद्यभावः स्यात् । एवं तादात्विकमूलहरकदर्येषु धर्मार्थकामानामन्योन्यबाधा सुलभैव । तथाहि-यः