________________
१२६
श्राद्धविधिकौमुदीसक्षेपः धम्मिड्डी भोगिड्ढी, पाविड्डी इअ तिहा भवे इड्डी । सा भन्नइ धम्मिढी, जा दिज्जइ धम्मकज्जेसु ॥ सा भोगिढी गिज्जइ, सरीरभोगम्मि जीइ उवओगो । जा दाणभोगरहिआ, सा पाविड्डी अणत्थफला ॥ पाविट्ठी पाविज्जइ, फलेण पावस्स पुव्वविहिअस्स। पावेण भाविणा वा, इत्थत्थे सुणह दिव॑तं ॥ अतो देवपूजाऽन्नदानादिकैः प्रत्यहं पुण्यैः सङ्घपूजासार्मिकवात्सल्यादिकैरवसरपुण्यैश्च निजद्धिः पुण्योपयोगिनी कार्या । यद्यप्यवसरपुण्यानि बहुव्ययसाध्यत्वेन महान्ति, प्रत्यहं पुण्यानि च.लघूनि तथापि प्रत्यहं पुण्येषु निरन्तरं भवत्सु भूयस्तरं फलं, तत्पूर्वकमेवावसरपुण्यकरणस्यौचित्यात् । न च धनस्तोकत्वादिना धर्मकार्यविलम्बादि कार्यम् । यदुवाच
देयं स्तोकादपि स्तोकं, न व्यपेक्ष्यो महोदयः । इच्छानुसारिणी शक्तिः, कदा कस्य भविष्यति ॥ श्वःकार्यमद्य कुर्वीत, पूर्वाह्ने चापराह्निकम् ।
न हि मृत्युः प्रतीक्षेत, कृतं चास्य न वा कृतम् ॥ अर्थार्जनार्थमपि यथार्ह प्रत्यहं प्रयतते । यतः
वणिग् वेश्या कविर्भट्टस्तस्करः कितवो द्विजः ।
यत्रोऽपूर्वार्थलाभो न, मन्यते तदहर्वथा ॥ . न च स्वल्पसम्पदैव तदुधमान्निवर्तते । यन्माघ:- .
संपदा सुस्थितम्मन्यो, भवति स्वल्पयापि यः ।
कृतकृत्यो विधिर्मन्ये, न वर्द्धयति तस्य ताम् ॥ नाप्यतितृष्णां कुर्यात् । यल्लोकेऽप्युक्तं
अतिलोभो न कर्तव्यो, लोभं नैव परित्यजेत् ।
अतिलोभाभिभूतात्मा, सगरः सागरं गतः ॥ .. न च यावदित्थं कस्यापि प्राप्तिसम्भवो, नहि रश्चक्रित्वाद्युच्चैर