________________
प्रथमः प्रकाशः
१२५
बद्धवध्याश्रये द्यूतस्थाने परिभवास्पदे । भाण्डागारे न गन्तव्यं, परस्याऽन्तःपुरे न च ॥ अमनोज्ञे श्मशाने च, शून्यस्थाने चतुष्पथे । तुषशुष्कतृणाकीर्णे, विषमावकरोषरे ॥ वृक्षाग्रे पर्वताग्रे च, नदीकूपतटे स्थितिम् । न कुर्याद् भस्मकेशेषु, कपालाङ्गारकेषु च ॥ कालंकृत्यं न मोक्तव्यमतिखिन्नैरपि ध्रुवम् । नाप्नोति पुरुषार्थानां, फलं क्लेशाऽजितः पुमान् ॥ भवेत् परिभवस्थानं पुमान् प्रायो निराकृतिः ।
विशेषाडम्बरस्तेन, न मोच्यः सुधिया क्वचित् ॥ देशान्तरगतश्च विशिष्य यथार्हाऽऽडम्बरसर्वाङ्गीणधर्मनिष्ठो भूयात्, तथैव महत्त्वबहुमानविलोक्यमानकार्यसिद्धयादिसम्भवात् । विदेशे च बहुबहुलाभाप्तावपि नातिबहु तिष्ठेद् बहुस्थितौ गृहसूत्रवैसंस्थूल्यादिदोषापत्तेः, काष्ठश्रेष्ठ्यादेरिव । समुदितक्रयविक्रयादिप्रारम्भे चाविघ्नेनाभिमतलाभादिकार्यसिद्ध्यर्थं पञ्चपरमेष्ठिस्मरणश्रीगौतमादिनामग्रहणकिंयत्तद्वस्तुश्रीदेवगुर्वाधुपयोगित्वकरणादि कर्त्तव्यं, धर्मप्राधान्येनैव सर्वत्र साफल्यभावात् । धनार्जनार्थमुपक्रमं कुर्वाणेन च सप्तक्षेत्रीव्ययादिधर्ममनोरथा निरन्तरं महान्त एव कर्त्तव्याः। ऊचुश्च.:. उच्चैर्मनोरथाः कार्याः, सर्वदैव मनस्विना ।
विधिस्तदनुमानेन, संपदे यतते यतः ॥ यल: कामार्थयशसां, कृतोऽपि विफलो भवेत् । .
धर्मकर्मसमारम्भसङ्कल्पोऽपि न निष्फलः ॥ लाभसम्भवे च तदनुरूपं तान् मनोरथान् सफलीकुर्यात् । यतः
ववसायफलं विहवो, विहवस्स फलं सुपत्तविणिओगो ।
तयभावे ववसाओ, विहवोवि अ दुग्गइनिमित्तं ॥ . एवञ्च निजऋद्धेर्धद्धित्वं स्यादन्यथा तु पापद्धित्वम् । उक्तञ्च