________________
१२४
श्राद्धविधिकौमुदीसङ्क्षेप निष्ठ्यूतश्लेष्मविण्मूत्रज्वलद्वह्निभुजङ्गमान्। मनुष्यमायुधं धीमान्, कदाऽप्युल्लङ्घयेन्न च ॥ नदीतीरे गवां गोष्ठे, क्षीरवृक्षे जलाश्रये । आरामेषु च कूपादाविष्टबन्धुं विसर्जयेत् ॥ क्षेमार्थी वृक्षमूलं न, निशीथिन्यां समाश्रयेत् । नासमाप्ते नरो दूरं, गच्छेदुत्सवसूतके ॥ नासहायो न चाज्ञातै व दासैः समं तथा । नातिमध्यन्दिने नार्द्धरात्रे मार्गे बुधो व्रजेत् ॥ क्रूरैरारक्षकैः कर्णेजपैः कारुजनैस्तथा । कुमित्रैश्च समं गोष्टी, चर्यां चाकालिकी त्यजेत् ॥ महिषाणां खराणाञ्च, धेनूनां चाधिरोहणम् । खेदस्पृशाऽपि नो कार्यमिच्छता श्रियमात्मनः ॥ गजात् करसहस्त्रेण, शकटात्पञ्चभिः करैः ।। शृङ्गिणोऽश्वाच्च गन्तव्यं, दूरेण दशभिः करैः ।। नाशम्बलश्चलेन्मार्गे, भृशं सुप्यान वासरे। सहायानां च विश्वास, विदधीत न धीधनः ॥ एकाकिना न गन्तव्यं, यदि कार्यशतं भवेत् । . पश्य कर्कटमात्रेण, ब्राह्मणः परिरक्षितः ॥ एकाकिना न गन्तव्यं, कस्याप्येकाकिनो गृहे । नैवापरपथेनापि, विशेत् कस्यापि वेश्मनि ॥ न जीर्णां नावमारोहेन्नद्यामेको विशेन्न च । न चातुच्छमतिर्गच्छेत् सोदर्येण समं पथि ॥ न जलस्थलदुर्गाणि विकटामटवीं न च । न चागाधानि तोयानि, विनोपायं विलङ्घयेत् ॥ भूयांसः कोपना यत्र, भूयांसः सुखलिप्सवः । भूयांसः कृपणा यत्र, स सार्थः स्वार्थनाशकः ॥ सर्वे यत्र च नेतारः, सर्वे पण्डितमानिनः । सर्वे महत्त्वमिच्छन्ति, तद् वृन्दमवसीदति ॥