________________
१२३
प्रथमः प्रकाशः ___अन्यथा च निर्वोढुमशक्तो यदि देशान्तरे व्यवहारं कुर्यात्तथापि न स्वयं नापि पुत्रादिभिः, किन्तु सुपरीक्षितवणिकपुत्रादिभिः । जातु स्वयमेव देशान्तरे यायात्, तदापि सुमुहूर्त्तशकुननिमित्तदेवगुरुवन्दनादिमाङ्गल्यविधिना बहुभाग्यवत्सार्थमध्यवर्ती निद्रादिप्रमादवर्जी कियद्भिः स्वकीयज्ञातीयसुपरिचितादिभिः सहैव सुयत्नेनैव व्रजेद् व्यवहरेत्तिष्ठेच्च । भाग्यवता चैकेनापि सार्थस्य विघ्नं टलति । ततो भाग्यवत्सार्थो ग्राह्यः । लभ्यदेयनिध्यादि च सर्वं पितृभ्रातृपुत्रादीनां च सर्वदापि ज्ञापयेत्, विशिष्य च. प्रस्थानावसरे, अन्यथा दुर्दैवात्तस्यायु:समाप्तौ सत्यपि विभवे पित्रादीनां मुधा दारियादिदुःखं कृतं. स्यात्, स्वकीयांश्च सर्वानपि यथार्हचिन्ताकरणशिक्षाप्रदानपूर्वं सबहुमानं सम्भाष्यैव प्रतिष्ठते । उक्तञ्च
अवमन्य माननीयान्निर्भय॑ स्त्री च कमपि सन्ताड्य ।
बालमपि रोदयित्वा जिजीविषुर्नैव निर्गच्छेत् ॥ आसन्नं च विशेषपर्वोत्सवादि कृत्वा व्रजति । यतः
उत्सवमशनं स्नानं प्रगुणं चोपेक्ष्य मङ्गलमशेषम् ।
असमापिते च सूतकयुगेऽङ्गनौ च नो यायात् ॥ एवमन्यदपि शास्त्राद्यनुसारेण यथोचितं चिन्तनीयम् । तथा चाह
क्षीरं भुक्त्वा रतं कृत्वा स्नात्वाऽऽहत्य गृहाङ्गनाम् । वान्त्वा निष्ठीव्य चाक्रोशं, श्रुत्वा च प्रचलेन्न हि ॥ कारयित्वा नरः क्षौरमश्रुमोक्षं विधाय च । गच्छेद् ग्रामान्तरे नैव, शकुनाऽपाटवेन च ॥ कार्याय चलितः स्थानाद वहन्नाडिपदं पुरः । कुर्वन् वाञ्छितसिद्धीनां भाजनं जायते नरः ॥ रोगिवृद्धद्विजान्धानां, धेनुपूज्यक्षमाभुजाम् । गर्भिणीभारभुग्नानां, दत्वा मार्ग व्रजेद्बुधः ॥ धान्यं पक्वमपक्वं वा, पूजार्ह मन्त्रमण्डलम् । न त्यक्तोद्वर्तनं लङ्घयं, स्नानाभ्भोऽसृक्शवानि च ॥