SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १२२ श्राद्धविधिकौमुदीसङ्क्षेपः ग्रन्थिबन्धे परीक्षायां, गणने गोपने व्यये । लेख्यके च कृतालस्यो, नरः शीघ्रं विनश्यति ॥ भ्रान्तिबहुलो हि जन्तुः, टिप्पनादि विना भ्रान्तौ मुधा कर्मबन्धादि - दोषोऽपि । योगक्षेमादिसिद्ध्यर्थं च रविरिवेन्दुना राजादिः कश्चिन्नायको- . ऽप्यनुसरणीयः, अन्यथा पदे पदे पराभवादिभावात् । उक्तश्च सुहृदामुपकारकारणाद् द्विषतां चाप्यपकारकारणात् । नृपसंश्रय इष्यते बुधैर्जठरं को न बिभर्ति केवलम् ॥ मन्त्रिवस्तुपालसाधुपेथडाद्यैरपि नृपाश्रयेणैव प्रासादाद्यनेकतत्तत्पुण्यकृत्यानि चक्रिरे । तथा द्यूतधातुवादादि दूरतः परिवर्जयेत् । यतःजूअं धाउव्वाओ, अंजणसिद्धीरसायणे तण्हा । जक्खिणिविवरपवेसो, दइवे रुट्ठे मई होई ॥ . यथा तथा शपथादिकं च न विदध्याद्, विशिष्य च देवगुर्वादिविषयम् । तदभिहितं अलिएणवि सच्चेणवि, चेइअसम्मं करेइ जो मूढो । सो वमइ बोहिबीअं, अनंतसंसारिओ होई ॥ नापि परप्रतिभूत्वादिसङ्कटे प्रविशेत् । यत्कार्पासिकः अनीश्वरस्य द्वे भार्ये, पथि क्षेत्रं द्विधा कृषिः । प्रातिभाव्यं च साक्ष्यञ्च पञ्चाऽनर्थाः स्वयं कृताः ॥ . तथा मुख्यवृत्त्या निवासग्रामे एव वाणिज्यादि कार्यम् । तथा सति कुटुम्बावियोगगृहकार्यधर्मकार्याद्यसीदनादयो गुणाः । तथा निर्वाहाभावे निवासदेशान्तर्व्यवहरेद्, एवमपि शीघ्रं शीघ्रं निजस्थानाऽऽगमनसम्भवादिना प्रायः पूर्वोक्ता गुणाः । को नाम हि नाम पामरोऽपि निजस्थाने निर्वाहसम्भवे देशान्तरक्लेशमाश्रयेत् । उक्तमपि - जीवन्तोऽपि मृताः पञ्च श्रूयन्ते किल भारत ! । दरिद्रो व्याधितो मूर्खः प्रवासी नित्यसेवकः ॥
SR No.002257
Book TitleShraddhvidhi Kaumudi
Original Sutra AuthorN/A
AuthorVairagyarativjay
PublisherPravachan Prakashan
Publication Year2006
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy