________________
प्रथमः प्रकाशः
प्रायः कण्टकसण्टङ्कं विना निर्वाह एव न । क्षेत्रग्रामगृहाराममुख्यरक्षा हि तद्वा ॥
प्रीतिपदे च सर्वथाऽर्थसम्बन्धादि वर्जयेत् । यतः
कुर्यात्तत्रार्थसम्बन्धमिच्छेद्यत्र न सौहृदम् । यदृच्छया न तिष्ठेच्च, प्रतिष्ठाभ्रंशभीरुकः ॥
सोमनीतावपि— अर्थसम्बन्धः सहवासश्च नो अकलहः । न च साक्षिणं विना मित्रगृहेऽपि स्थापनिकास्थापनं, मित्रादिहस्ते न स्वद्रव्यप्रेषणाद्यपि युक्तम्, अविश्वासस्यार्थमूलत्वाद्विश्वासस्य चानर्थमूलत्वात् । यदाह
ऽपि -
१२१
न विश्वसेदविश्वस्ते, विश्वस्तेऽपि न विश्वसेत् । विश्वासाद्भयमुत्पन्नं, मूलादपि निकृन्तति ॥
गुप्तमुक्तस्थापनिकया च को वा सुहृदपि न लोलुभ्यते ? भण्यते
निक्षेपे पतिते हर्म्ये, श्रेष्ठी स्नौति स्वदेवताम् ।
यदीशो म्रियतामाशु, तुभ्यं दास्यामि याचितम् ॥ अस्माभिरप्युक्तं
अत्थो नूणमणत्थो, अग्गीव परं गिहीण तेण विणा ।
कहमवि न हु निव्वाहो, ता तं जुत्तीइ रक्खिज्जा ॥ अत्र श्रेष्ठिधनेश्वरसम्बन्धः । साक्षिकरणे कथानकम् ।
तस्मात्स्थापनिका गुप्तवृत्त्या न मोच्या न ग्राह्या वा, किन्तु कियत्स्वजनसमक्षमेव मोच्या ग्राह्या च । न च धनिकानुमति विना सा चालयितुमपि युज्यते, किं पुनर्वाणिज्यादौ व्यापारयितुम् । जातु न्यासकृदन्यत्र मृतस्तदा तत्सुतादेः सार्पणीया । तत्सुताद्यभावे तु सर्वसमक्षं धर्मस्थाने व्यययितव्याः ।
नाप्युद्धारनिक्षेपादिसमग्राऽऽयव्ययटिप्पनादौ स्वल्पमप्यालस्यं
कुर्यात्। यत उक्तं—