SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ श्राद्धविधिकौमुदीसक्षेपः हीनान्यनुपकर्तृणि, विवृद्धानि विकुर्वते । राज्ञा मध्यमशक्तीनि, मित्राणि स्थापितान्यतः ॥ अन्यत्रापितत्र तिष्ठति न भ्राता, न पिताऽन्योऽपि वा जनः । पुंसामापत्प्रतीकारं, सन्मित्रं यत्र तिष्ठति ॥ ईश्वरेण समं प्रीतिर्न मे लक्ष्मण ! रोचते । गते च गौरवं नास्ति, आगते च धनक्षयः ॥ इति युक्तोक्तिसद्भावेऽपि यदि महता सह कथमपि प्रीतिः स्यात्तदा दुःसाधकार्यसिद्ध्यादयोऽनेके गुणाः । यतः____ आपण पई प्रभु होइ, इकि प्रभु किज्जइ हत्थि। . . कज्जकरे वा माणुसह अवरउ मग्ग न अस्थि ॥ लघुरपि च मित्रीकृतो महतोऽप्यवसरे महते गुणाय स्यात् । उक्तंञ्च पञ्चाख्याने कर्त्तव्यान्येव मित्राणि, सबलान्यबलान्यपि । हस्तियूथं वने बद्धं, मूषकेण विमोचितम् ॥ नहि लघुसाध्यानि कार्याणि महद्भिः समुदितैरपि साधयितुं . शक्यानि। सूचीकार्यं हि सूच्यैव सिद्ध्यति न तु खड्गादिभिः, तृणकार्य तृणेनैव न तु गजादिभिः । तदवादिष्म-. तृणकणलवणानलकज्जलगोमयमृदश्मभस्मायः। सूचीचूर्णौषधकुञ्चिकादि चानन्यसमकार्यम् ॥.. मुखदाक्षिण्यादि तु दुर्जनादिभिरपि न जह्यात् । यत: सद्भावेन हरेन् मित्रं, सन्मानेन च बान्धवान् । .. स्त्रीभृत्यान् प्रेमदानाभ्यां, दाक्षिण्येनेतरं जनम् ॥ क्वचिच्च स्वकार्यसिद्ध्यै खलानपि पुरस्कुर्यात् । यदभ्यधिष्म खलान् क्वापि पुस्कृत्य, स्वकृत्यं साधयेत् बुधः । रसभुक् क्लेशरसिकान्, रसना दशनानिव ॥
SR No.002257
Book TitleShraddhvidhi Kaumudi
Original Sutra AuthorN/A
AuthorVairagyarativjay
PublisherPravachan Prakashan
Publication Year2006
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy