________________
प्रथमः प्रकाशः
“विहाराहारव्याहारव्यवहारास्तपस्विनाम् । गृहिणां तु व्यवहार, एव शुद्धो विलोक्यते ॥
व्यवहारशुद्धयैव च सर्वोऽपि धर्मः सकलः । यद्दिनकृत्यकृत्
ववहारसुद्धि धम्मस्स, मूलं सव्वन्नु भासए ।
ववहारेणं तु सुद्धेणं, अत्थसुद्धी जओ भवे ॥ (श्रा० वि० कृ० १५९)
सुद्धेणं चेव अत्थेणमाहारो होइ सुद्धओ । आहारेण तु सुद्धेणं, देहसुद्धो जओ भवे ॥ सुद्धेणं चेव देहेणं, धम्मजुग्गो अ जायई । -जं जं कुणइ किच्चं तु, तं तं से सफलं भवे ॥ अन्नहा अफलं होइ, जं जं किच्चं तु सो करे । ववहारसुद्धिरहिओ अ, धम्मं खिसावए जओ ॥ धम्मखिसं कुर्णताणं, अप्पणो अ परस्स य । अबोही परमा होइ, इअ सुत्ते विभासिअं ॥
१३१
तम्हा सव्वपयत्तेणं, तं तं कुज्जा विअक्खणो । जेण धम्मस्स खिसं तु, न करे अबुहो जणो ॥
लोकेऽप्याहारानुसारेण पिण्डप्रकृतिबन्धो दृश्यते । यथा तुरङ्गमा बाल्ये महिष्याः पीतपयस्काः पयसि पतन्ति । गवां पीतदुग्धाः पानीयात् दूर एंव तिष्ठन्ति । तथा मनुष्योऽपि बाल्याद्यवस्थाभुक्ताहारानुसारिप्रकृतिर्जायते । अतो व्यवहारशुद्धयै सम्यगुपक्रम्यम् । इति व्यवहारशुद्धिस्वरूपम् ।
तथा देशादिविरूद्धपरित्यागो, देशकालनृपादिविरूद्धवर्जनम् | यदुक्तं हितोपदेशमालायां
देसरस य कालस्स य, निवस्स लोगस्स तह य धम्मस्स । वज्जंतो पडिकूलं, धम्मं सम्मं च लहइ नरो ॥
तत्र सौवीरेषु कृषिकर्म, लाटेषु सुरासन्धानं देशविरुद्धम् । अन्यदपि यद्यत्र देशे शिष्टजनैरनाचीर्णं तत् तत्र देशविरुद्धम् । जातिकुलाद्यपेक्षया