________________
प्रथमः प्रकाशः
ग्राहकव्युद्ग्राहन - वर्णिकान्तरदर्शन - सान्धकारस्थानवस्त्रादिवाणिज्य
• मषीभेदादिभिः सर्वथा परवञ्चनं वर्ज्यम् । यतः -
११७
,
विधाय मायां विविधैरुपायैः परस्य ये वञ्चनमाचरन्ति । ते वञ्चयन्ति त्रिदिवापवर्गसुखान्महामोहसखाः स्वमेव ॥
न चैवं निस्वानां निर्वाहस्यैव दौष्कर्यम् । निर्वाहो हि स्वकर्मणैव स्यात्, व्यवहारशुद्धौ तु बहुग्राहकागमनादिना विशिष्य । अत्र व्यवहारशुद्धौ हेलाकनिदर्शनम् ।
स्वामिमित्रविश्वस्तदेवगुरुवृद्धबालद्रोहन्यासापहारादीनि तु तद्धत्या - प्रायाणि महापातकानि सर्वथा विशिष्य वर्जनीयानि । यतः -
कूटसाक्षी दीर्घरोषी, विश्वस्तघ्नः कृतघ्नकः ।
चत्वारः कर्मचाण्डाला, पञ्चमो जातिसम्भवः ॥
अत्र विश्वस्तवञ्चने विसेमिरादृष्टान्तः ।
I
इह पापं द्विधा, गोप्यं स्फुटं च । गोप्यमपि द्विधा, लघु महच्च । लघु कूटतुलामानादि, महद्विश्वासघातादि । स्फुटमपि द्विधा, कुलाचारेण निर्लज्जत्वादिना च । कुलाचारेण गृहिणामारम्भादि म्लेच्छानां हिंसादि च । निर्लज्जत्वादिना तु यतिवेषस्य हिंसादि । तत्र निर्लज्जत्वादिना स्फुटेऽनन्तसंसारित्वाद्यपि प्रवचनोड्डाहादिहेतुत्वात् । कुलाचारेण पुनः स्फुटे स्तोकः कर्मबन्धो गोप्ये तु तीव्रतरोऽसत्यमयत्वात् । असत्यं च मनोवाक्कायैस्त्रिविधमपि महत्तमं पातकं, तद्वद्भिरेव गोप्यपापकरणात् । न ह्यसत्यत्यागी गोप्यपापे क्वापि प्रवर्त्तते । असत्यप्रवृत्तेश्च निःशूकता स्यात् । निःशूकतायां च स्वामिमित्रविश्वस्तद्रोहादीन्यपि महापातकानि कुर्यात्, तत एवोक्तं योगशास्त्रान्तरश्लोकेषु
एकत्राऽसत्यजं पापं पापं निःशेषमन्यतः । द्वयोस्तुलाविधृतयोराद्यमेवातिरिच्यते ॥
एवं चासत्यमयगोप्यपापरूपस्य परवञ्चनस्य वर्जने सर्वशक्त्या