________________
११८
श्राद्धविधिकौमुदीसक्षेपः यतनीयम् । न्याय एव हि परमार्थतोऽर्थोपार्जनोपायोपनिषद् । दृश्यते हि सम्प्रत्यपि न्यायानुसारिणां स्वल्पस्वल्पार्थोपार्जनेऽपि धर्मस्थानादौ प्रत्यहं तद्व्ययेऽपि च कूपादीनामिवाक्षयद्रव्यत्वादि । परेषां तु पापपराणां बहुबहुद्रव्यलाभेऽपि तादृग्व्ययाभावेऽपि च मरुसरोवरादीनामिव द्रागेव क्षीणद्रव्यत्वादि । आह च
आत्मनाशाय नोन्नत्यै, छिद्रेण परिपूर्णता। .
भूयो भूयो घटीयन्त्रं निमज्जत् किं न पश्यसि ? ॥ ननु न्यायधमैकनिष्ठा अपि केचिद् दौस्थ्यादिना नित्यं दुःखिता एव दृश्यन्ते, अन्ये तु अन्यायाधर्मैकनिष्ठा अप्यैश्वर्यादिना सुखिताश्च तत्कथं न्यायस्यैव प्राधान्यम् ? उच्यते-अयं प्राक्कर्मकृतो विपाकविशेषो न तु एतद्भवकर्मकृतः । कर्म च चतुर्द्धा । यदाहुः श्रीधर्मघोषसूरिपादाः
पुण्णाणुबंधि पुण्णं, तहेव पावाणुबंधि पुण्णं च । पुण्णाणुबंधि पावं, पावं पाण्वाणुबंधि तहा ॥ अविराहियजिणधम्मा, निरवायं निरूवमं च भवसायं । भरहुव्व लहंति जओ, पुण्णं पुण्णाणुबंधि तयं ॥ नीरोगाइगुणजुआ, महिड्डिआ कोणिउव्व पावरया । पावाणुबंधिपुण्णा, हवंति अन्नाणकट्टेण ॥ जं पुण पावस्दया, दरिद्दिणो दुक्खिआवि पावंति । जिणधम्मं तं पुण्णाणुबंधिपावं दयाइलवा ॥ द्रमकमहर्षिवत् । पावा पयंडकम्मा, निद्धम्मा निग्धिणा निरणुतावा । दुहिआवि पावनिरया, पावं पावाणुबंधि तयं ॥ कालशौकरिकादिवत् । बहिरंतरंगरिद्धी, जायइ पुण्णाणुबंधिपुण्णेणं । । इक्कावि न जेसिं पुणो, धिद्धी मणुअत्तणं तेर्सि ॥ जे खण्डभावणा पुण, करिति न जिआ अखण्डिअं पुण्णं ।
ते अन्नभवे पावंति, संपया आवयाहि जुआ ॥ . . . एवं च यद्यपि कस्यचित्पापानुबन्धिपुण्यकर्मवशादैहलौकिकी