________________
११६
श्राद्धविधिकौमुदीसक्षेपः न्यायकरणेऽपि यथा विवादभङ्गमहत्त्वादिर्गुणस्तथा दोषोऽपि महान् । विवादापनोदाय कस्याप्यसदपि देयं क्रियते, अन्यस्य च सदापि भज्यते सम्यगपरिज्ञानादिना ।
अत्र न्यायकरज्ञातम् ।
तथा परमत्सरं क्वापि न कुर्यात् । कर्मायत्ता हि भूतयः, किं- मुधा मत्सरेण भवद्वयेऽपि दुःखाकरेण ? । आचक्ष्महि च
यादृशं चिन्त्यतेऽन्यस्य तादृशं स्वयमाष्यते । ..
इति जानन् कथं कुर्यात् परवृद्धिषु मत्सरम् ?॥ तथा धान्यौषधवस्त्रादिवस्तुविक्रयार्त्तावपि दुर्भिक्षव्याधिवृद्धिवस्त्रादिवस्तुक्षयादि जगदुःखकृत् सर्वथा नाभिलषेत्, नापि दैवात्तज्जात:मनुमोदेत, मुधा मनोमालिन्याद्यापत्तेः । तदाहु:
उचिअं मुत्तूण कलं, दव्वाइकमागयं च उक्करिसं। .
निवडिअमवि जाणंतो, परस्स संतं न गिण्हिज्जा ॥ अस्या व्याख्या-उचितकला शतं प्रति चतुष्कपञ्चकवृद्धयादिरूपा । 'व्याजे स्याद् द्विगुणं वित्तम्' इत्युक्तेः द्विगुणद्रव्यत्रिगुणधान्यादिरूपा वा तां, तथा द्रव्यं गणिमधरिमादि, आदिशब्दात्तत्तद्गतानेकभेदग्रहः, तेषां द्रव्यादीनां क्रमेण द्रव्यक्षयलक्षणेनागतः सम्पन्नो य उत्कर्षोऽर्थवृद्धिरूपः, तं मुक्त्वा शेषं न गृह्णीयात् । कोऽर्थः ? यदि कथञ्चित् पूगफलादिद्रव्याणां क्षयाद् द्विगुणादिलाभः स्यात्तदा तमदुष्टाशयतया गृह्णाति । न त्वेवं चिन्तयेत् सुन्दरं जातं यत् पूगफलादीनां क्षयोऽभूदिति । तथा निपतितमपि परसक्तं जानन्न गृह्णीयात् । कलान्तरादौ क्रयविक्रयादौ च देशकालाद्यपेक्षया य उचितः शिष्टजनानिन्दितो लाभः स एव ग्राह्य इत्युक्तमाद्यपञ्चाशकवृत्तौ । तथा कूटतूलामान-न्यूनाधिकवाणिज्य-रसमेल-वस्तूमेलानुचितमूल्य-वृद्ध्यनुचित-कलान्तरग्रहण-लञ्चाप्रदानग्रहणकूटकरकर्षण-कूटघृष्टनाणकाद्यर्पण-परकीयक्रयविक्रयभञ्जन-परकीय