________________
प्रथमः प्रकाशः
११३
व्युत्सृज्यम्, यथा तदुत्थं पापं न लगेत् । इत्थं युक्त्यानन्तभवसत्कं गेहदेहकुटुम्बवित्तशस्त्रादि सर्वं पापहेतु विवेकिना व्युत्सर्जनीयम्, अन्यथा तदुत्थदुष्कृतस्यानन्तैरपि भवैरनिवृत्तेः । न चैतदनागमिकम्, पञ्चमाङ्गे पञ्चमशते षष्ठोद्देशके व्याधेन मृगे हते धनुःशरज्यालोहादिजीवानामपि हिंसादिक्रियाया उक्तत्वात् । न च क्वचित् किञ्चिद्धनहान्यादिना निर्वेदं यायाद्, अनिर्वेदस्यैव श्रियो मूलत्वात् । उच्यते च
सुव्यवसायिनि कुशले, क्लेशसहिष्णौ समुद्यतारम्भे ।
नरि पृष्ठतो विलग्ने, यास्यति दूरं कियलक्ष्मी: ? ॥ यत्र च धनमय॑ते तत्र किञ्चिद् यात्यपि, बीजनाशपूर्विकैव हि कर्षकस्यापि धान्यसम्पत्तिः । दुर्दैववशाच्च बहुधनादिहानावपि न दैन्याद्याश्रयेत्, किन्तु धर्मकरणादियथार्हतत्प्रतिक्रियायै प्रयतेत । आह हि
म्लानोऽपि रोहति तरुः, क्षीणोऽप्युपचीयते पुनश्चन्द्रः।। इति विमृशन्तः सन्तः सन्तप्यन्ते न विपदाऽपि ॥ विपदां संपदां चापि, महतामेव सम्भवः । कृशता पूर्णता चापि, चन्द्र एव न चोडुषु ॥ विच्छायतां व्रजसिं किं ? सहकारशाखिन् ! यत्फाल्गुनेन सहसाऽपहृता मम श्रीः । प्राप्ते वसन्तसमये तव सा विभूतिर्भूयो
भविष्यतितरामचिरादवश्यम् ॥ अत्राभड-प्रबन्धः।
प्राकृतदुष्कृतदौरात्म्यात् पूर्वावस्थाया अप्राप्तावपि धैर्यमेवावलम्ब्यम् । विपदब्धौ तस्यैव पोतायमानत्वात् । कस्य वा सर्वे दिवसाः सदृशाः स्युः ? । भण्यतेऽपि
को इत्थ सया सुहिओ, कस्सव लच्छी थिराइं पिम्माइं। . को मच्चुणा न गसिओ, को गिद्धो नेव विसएसु ॥