________________
११४
श्राद्धविधिकौमुदीसक्षेपः ईदृशि विषमे च सन्तोष एव सर्वसुखमूलमालम्बनीयः, अन्यथा तच्चिन्ता] भवद्वयकार्येभ्योऽपि परिभ्रश्येत । तत उक्तम्
चिंता नामेण नई, आसासलिलेण पूरिआ वहई।
बुड्डेसि मंद तारुअ संतोसतरंडए लग्ग ॥ यदा च विविधोपायकरणेऽपि स्वभाग्यदशाया हीनत्वमेवानुभवति, तदा कस्यचिद्भाग्यवतः सुयुक्त्या कथमप्याधारं गृह्णीयात् । काष्ठाधारण हि लोहपाषाणाद्यपि तरति ।
निर्दयत्वमहङ्कारस्तृष्णा कर्कशभाषणम् ।
नीचपात्रप्रियत्वं च पञ्च श्रीसहचारिणः ॥ इत्युक्तिसत्प्रकृत्यपेक्षा । तेन भूरिद्रव्यलाभेऽपि न गर्वादि कुर्वीत। . यत:
विपदि न दीनं संपदि न गर्वितं सव्यथं परव्यसने । हृष्यति चात्मव्यसने येषां चेतो नमस्तेभ्यः ॥ . जं जं खमइ समत्थो, धणवंतो जं न गम्विओ होइ ।
जं च सविज्जो नमिओ, तिहिं तेहिं अलंकिआ पुहवी ॥ न च केनापि सह स्वल्पमपि कलहायेत, विशिष्य च महद्भिः । यतः
वर्जयेत् कासवांश्चौर्य, निद्रावान् चर्मचोरिकाम् । रोगवान् रसनालौल्यं, धनवानन्यतः कलिम् ॥ अत्थवइणा निवड़णा, पक्खवया बलवया पयंडेण ।
गुरुणा नीएण तवस्सिणा य सह वज्जए वायं ॥ जातु महता सहार्थादिसम्बन्धः स्यात्तदा प्रणिपातादिनैव स्वकार्यसिद्धिर्न तु बलकलहादिना । पञ्चाख्यानेऽप्याख्यातम्
उत्तमं प्रणिपातेन शूरं भेदेन योजयेत् ।
नीचमल्पप्रदानेन स्वतुल्यं तु पराक्रमैः ॥ . . धनार्थी धनवांश्च विशिष्य क्षमामाद्रियेत् । क्षमा हि श्रीवृद्धिरक्षयोः