________________
११२
श्राद्धविधिकौमुदीसक्षेपः प्रतिष्ठायाः । उक्तमपि
तत्तिअमित्तं जंपह जत्तिअमित्तस्स निक्कयं वहह । - तं उक्खिवह भारं जं अद्धपहे न छंडेइ ॥ जातु धनहान्यादिना दातुमशक्तः, शनैः शनैस्तदर्पणस्वीकारादिनोत्तमर्णः सन्तोष्यः, अन्यथा विश्वासहान्या व्यवहारभङ्गप्रसङ्गः । ऋणच्छेदे सर्वशक्त्या यतितव्यम् । को हि मूढधीर्भवद्वयपराभवकारणमृणं क्षणमात्रमपि धारयेत् । यदुक्तं
धर्मारम्भे ऋणच्छेदे, कन्यादाने धनागमे ।। शत्रुघातेऽग्निरोगे च, कालक्षेपं न कारयेत् ॥ तैलाभ्यङ्गमृणच्छेदं कन्याभरणमेव च ।
एतानि सद्योदुःखानि, परिणामे सुखानि तु ॥ स्वनिर्वाहाऽक्षमतया ऋणदानाशक्तेन तूत्तमर्णगृहे यथार्हकर्मकरणादिनापि ऋणमुच्छेद्यम्, अन्यथा भवान्तरे तद्गृहे कर्मकर-महिष-वृषभकरभ-रासभ-वेसर-तुरगादित्वस्यापि सम्भवात् । उत्तमर्णेनापि सर्वथा ऋणदानाशक्तो न याच्यो, मुधैव क्लेशपापवृद्ध्यादिभावात् । किन्तु 'यदा शक्नोषि तदा दद्याः, नो चेदिदं धर्मपदे मे भूयात्' इति वाच्यः । न तु ऋणसम्बन्धश्चिरं स्थाप्यः, तथा सत्यायु:समाप्तौ भवान्तरे द्वयोमिथः सम्बन्धवैरवृद्ध्याद्यापत्तेः । अत्र श्रेष्ठिभावड दृष्टान्तः । ऋणसम्बन्धे हि प्रायः कलहाऽनिवृत्तेर्वैरवृद्ध्याद्यपि प्रतीतम् । तस्मादृणसम्बन्धस्तद्भवे एव यथाकथञ्चिन्निर्वाल्यः । अन्यत्रापि व्यवहारे निजस्वस्याचटने धर्मार्थमिदमिति चिन्त्यं धर्मार्थिना । अतः सार्मिकैरेव सह मुख्यवृत्त्या व्यवहारो न्याय्यः, तत्पाबें स्थितस्य निजस्वस्य धर्मोपयोगित्वसम्भवात् । म्लेच्छादिपार्खाल्लभ्ये तु यत्र कोऽपि पुण्योपयोगो न स्यात्, तस्य प्राप्त्यसम्भवे व्युत्सर्जनमेव युक्तम् । व्युत्सर्गादनु प्राप्तं तु तत्सङ्घस्यैव धर्मव्ययार्थमर्म्यम् । एवं स्वकीयं गतमपि वित्तवस्तु शस्त्रादिप्राप्त्यसम्भवे