________________
प्रथमः प्रकाशः
१११
अदृष्टमपरीक्षितं च पण्यं न स्वीकार्यम् । समुदितं शङ्कास्पदं च समुदितैरेव ग्राह्यं न त्वेकाकिना, विषमपाते तथैव साहाय्यकादिभावात् । उक्तं
क्रयाणकेष्वदृष्टेषु न सत्यङ्कारमर्पयेत् । दद्याच्च बहुभिः सार्द्धमिच्छेलक्ष्मीं वणिग् यदि ॥
क्षेत्रतः स्वचक्रपरचक्रमान्द्यव्यसनाद्युपद्रवरहिते धर्मसामग्रीसहिते च क्षेत्रे व्यवहार्यं, न त्वन्यत्र बहुलाभेऽपि । कालतोऽष्टाहिकात्रय - पर्वतिथ्यादिकं वक्ष्यमाणं वर्षादिकालविरुद्धं च त्याज्यम् । भावतोऽनेके भेदाः ।
तद्यथा - क्षत्रियव्यापारिनृपाद्यैः सह व्यवहारः स्वल्पोऽपि न प्रायो गुणाय । स्वहस्तदत्तवित्तयाचनेऽपि येभ्यो भीयते, तैः सह शुभोदर्कः कथं नाम स्वल्पोऽपिं व्यवहारः ? । तदाह
व्यापारिभिश्च विप्रैश्च सायुधैश्च वणिग्वरः । श्रियमिच्छन्न कुर्वीत व्यवहारं कदाचन ॥
- उद्धारके च विरोधकारकैः कैरपि सह न व्यवहार्यम् । यतः - सङ्ग्रहेऽर्थोऽपि जायेत प्रस्तावे तस्य विक्रयात् ।
उद्धारे नोचितः सोऽपि वैरविग्रहकारिणि ॥
नटे विटे च वेश्यायां द्यूतकारे विशेषतः । उद्वारके न दातव्यं मूलनाशो भविष्यति ॥
'कलान्तरव्यवहारोऽपि समधिकग्रहणकादानादिनैवोचितः, अन्यथा तन्मार्गणादिहेतुकक्लेशविरोधधर्महानिधरणाद्यनेकानर्थापत्तेः । अत्र पुत्र शिक्षादृष्टान्तः । तस्मादुद्धारे क्वापि न व्यवहार्यम् । अनिर्वहंस्तु यदि तथापि व्यवहरति, तदा सत्यवादिभिरेव सह कलान्तरमपि देशकालाद्यपेक्षयैकद्विकत्रिकचतुष्कपञ्चकवृद्ध्यादिरूपं शिष्टजनानिन्दितमेव ग्राह्यम् । दायकेनापि प्रोक्तवेलाया अर्वागेव तद्देयं, सज्जननिर्वाहाधीनत्वात्पुंसः