________________
११०
श्राद्धविधिकौमुदीसक्षेपः . एषु च वणिजां वाणिज्यमेव मुख्यवृत्त्याऽर्थार्जनोपायः । पठ्यतेऽपि
महुमहणस्सयवत्थे न चेव कमलायरे सिरी वसइ ।
किंतु पुरिसाण ववसायसायरे तीइ सुहठाणं ॥ वाणिज्यमपि स्वसहायनीवीबलस्वभाग्योदयदेशकालाद्यनुरूपमेव . कुर्याद्, अन्यथा सहसा त्रुट्याद्यापत्तेः । उक्तं चास्माभिः
स्वकशक्त्यानुरूपं हि प्रकुर्यात् कार्यमार्यधीः। .
नो चेदसिद्धिहीहासहीलाश्रीबलहानयः ॥ . अन्यैरपि
को देशः कानि मित्राणि कः कालः कौ व्ययागमौ । कश्चाहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥ लघूत्थानान्यविनानि सम्भवत्साधनानि च । . कथयन्ति पुरः सिद्धि कारणान्येव कर्मणाम् ॥ . उद्भवन्ती विना यलमभवन्ती च यत्नतः ।
लक्ष्मीरेव समाख्याति विशेष पुण्यपापयोः ॥ वाणिज्ये व्यवहारशुद्धिश्चतुर्धा, द्रव्य-क्षेत्र-काल-भावभेदात् । तत्र द्रव्यतः पञ्चदशकर्मादानादिनिदानं भाण्डं सर्वात्मना त्याज्यम् । यतः
धर्मबाधकरं यच्च यच्च स्यादयशस्करम् ।।
भूरिलाभमपि ग्राह्यं पण्यं पुण्यार्थिभिर्न तत् ॥ निष्पन्नवस्त्रसूत्रनाणकस्वर्णरूप्यादि पण्यं प्रायो निर्दोषम् । वाणिज्ये च यथा यथा स्वल्प आरम्भः स्यात्तथा तथा यतनीयम्। दुर्भिक्षादावनिर्वाहे तु यदि बह्वारम्भं खरकर्माद्यपि करोति, तदाऽनिच्छु: स्वं निन्दन् सशूकतयैव करोति । यदुक्तमागमोक्तभावश्रावकलक्षणे
वज्जइ तिव्वारंभं कुणइ अकामो अनिव्वहंतो उ। थुणइ निरारंभजणं, दयालुओ सव्वजीवेसु ॥ धन्ना हु महामुणिणो, मणसावि करंति जे न परपीडं । आरंभपापविरिया, भुंजंति तिकोडिपरिसुद्धं ॥