________________
प्रथमः प्रकाशः
१०९
अत्र तस्येति विशेष्यम्, असदारम्भिण इति विशेषणम् । यद्वा चस्य गम्यत्वात्तस्य प्रव्रज्याविरोधवर्त्तिनः प्रव्रजितस्य असदारम्भिणो गृहस्थस्य
च ।
धर्मलाघवकृन्मूढो भिक्षयोदरपूरणात् । करोति दैन्यात्पीनाङ्गः पौरुषं हन्ति केवलम् ॥
निःस्वान्धपङ्गवो ये तु न शक्ता वै क्रियान्तरे । भिक्षामटन्ति वृत्त्यर्थं वृत्तिभिक्षेयमुच्यते ॥
इयं च नातिदुष्टा निःस्वान्धादीनां धर्मलाघवकारित्वाभावेनानुकम्पानिमित्तत्वात्, तस्माद् भिक्षावृत्तिर्गृहस्थेन वर्जनीया, विशिष्य च धर्मवता, विशिष्टस्यापि धर्मानुष्ठानस्य तया दुर्जनसौहार्दस्येवाऽवज्ञानिन्दास्पदत्वाद्यापत्तेः । धर्मनिन्दानिमित्ततायां च बोधिदुष्प्रापतादिदोषः । यदुक्तमोघ - निर्युक्तौ साधुमाश्रित्य -
प्रोक्ता ७।
छक्कायदयावंतो वि संजओ दुल्लहं कुणइ बोहिं । आहारे नीहारे, दुगुछिए पिण्डगहणे अ ॥
न भिक्षया कस्यचिल्लक्ष्मीसुखादिसम्पत्तिः । यतः -
. लक्ष्मीर्वसति वाणिज्ये किंचिदस्ति च कर्षणे ।
• अस्ति नास्ति च सेवायां भिक्षायां न कदाचन ॥
उदरभरणादिनिर्वाहमात्रं तु भिक्षया भवतीत्येषाप्याजीविकोपायतया
- मनुस्मृतौ चतुर्थाध्याये त्वेवमुक्तं
ऋताऽमृताभ्यां जीवेत मृतेन प्रमृतेन वा । सत्यानृतेन चैवापि न श्ववृत्त्या कदाचन ॥ ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम् । मृतं तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम् ॥ सत्यानृतं तु वाणिज्यं तेन चैवापि जीवति । सेवा श्ववृत्तिराख्याता तस्मात्तां परिवर्जयेत् ॥