SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १०८ . श्राद्धविधिकौमुदीसझेपः तत्सेवामपि त्यजति । भिक्षा धातुधान्यवसनादीभैक्ष्यभेदादनेकभेदा । तत्र च धर्मोपष्टम्भमात्रहेतुराहारवस्त्रपात्रादिभिक्षा सर्वसङ्गपरित्यागवतामौचितीमञ्चति । यदुच्यते प्रतिदिनमयललभ्ये ! भिक्षुकजनजननि ! साधुकल्पलते ! । नृपनमनि ! नरकवारिणि ! भगवति ! भिक्षे ! नमस्तुभ्यम् ॥ शेषभिक्षा तु 'न्यक्षाऽप्यत्यन्तलाघवहेतुरेव । वदन्ति च ता रूवं ताव-गुणा लज्जा सच्चं कुलक्कमो ताव। . तावच्चिअ अभिमाणं, देहि त्ति न जंपए जाव ॥ तृणं लघु तृणात्तूलं तूलादपि च याचकः । वायुना किं न नीतोऽसौ मामयं याचयिष्यति ॥ .. रोगी चिरप्रवासी परान्नभोजी परावसथशायी। . . यज्जीवति तन्मरणं यन्मरणं सोऽस्य विश्रामः ॥ भिक्षाभोजिनश्च निश्चिन्ततया बह्वशनाऽऽलस्यनिद्रादिप्राचुर्यसम्भवेनाकिञ्चित्करत्वं नासुलभम् । उक्तञ्च भिक्षात्रैविध्यं श्रीहरिभद्रसूरिभिः पञ्चमाष्टके सर्वसंपत्करी चैका पौरुषघ्नी तथा परा। वृत्तिभिक्षा च तत्त्वज्ञैरिति भिक्षा त्रिधोदिता ॥ यतिर्ध्यानादियुक्तो यो गुर्वाज्ञायां व्यवस्थितः । सदाऽनारम्भिणस्तस्य सर्वसंपत्करी मता ॥ प्रव्रज्यां प्रतिपन्नो यस्तद्विरोधेन वर्त्तते । असदारम्भिणस्तस्य पौरुषघ्नी च कीर्तिता ॥ १. सर्वा इति को० ह० प्र० पाठः । .
SR No.002257
Book TitleShraddhvidhi Kaumudi
Original Sutra AuthorN/A
AuthorVairagyarativjay
PublisherPravachan Prakashan
Publication Year2006
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy