________________
प्रथमः प्रकाशः
१०७ ददौ । जितशत्रुनृपो यामिकाय राजपुत्रदेवराजाय सर्पोपद्रवटालनतुष्टः स्वराज्यं दत्वा प्रव्रज्य सिद्धः । मन्त्रि श्रेष्ठिसेनान्यादिव्यापारश्च सर्वोऽपि नृपसेवायामन्तर्भवति, स च पापमयत्वात् पर्यन्तविरसत्वाच्च मुख्यवृत्त्या श्रावकेण वर्जनीयः । वदन्ति च
. नियोगे यत्र यो मुक्तस्तत्र स्तेयं करोति सः । . किं नाम रजकः क्रीत्वा वासांसि परिधास्यति ॥
अधिकाधयोऽधिकाराः कारा एवाग्रतः प्रवर्त्तन्ते । . प्रथमं न बन्धनं तदनुबन्धनं नृपनियोगजुषाम् ॥
सर्वप्रकारं च नृपव्यापारं त्यक्तुमशक्तोऽपि गुप्तिपाल-कोट्टपालसीमपालादिव्यापारमत्यन्तपापमयं निस्त्रिंशजनोचितमास्तिकस्त्यजेदेव । यदुक्तं. गोदेवकरणरक्षतलावर्तकपट्टकाः ।
ग्रामोत्तरश्च न प्रायः सुखाय प्रभवन्त्यमी ॥ शेषमपि व्यापारं यदि स्वीकुर्यात्तदा मन्त्रिवस्तुपालसाधुश्रीपृथ्वीधरादिवत्सुकृतकीयॆकमयं कुर्यात् । यद्वदन्ति
नृपव्यापारपापेभ्यः स्वीकृतं सुकृतं न यैः। तान् धूलिधावकेभ्योऽपि मन्ये मूढतरान्नरान् ॥ प्रभोः प्रसादे प्राज्येऽपि प्रकृतीनेव कोपयेत् ।
व्यापारितश्च कार्येषु याचेताऽध्यक्षपुरुषम् ॥ एवं विधिनापि सम्भवे सेवा सुश्रावकस्यैव नृपादेरुचिता । यतः
सावयवरम्मि वर हुज्ज चेडओ नाणदंसणसमेओ।
मिच्छत्तमोहिअमई, मा राया चक्कवट्टी वि ॥ जातु अन्यथा निर्वाहाभावे सम्यक्त्वप्रतिपत्तौ 'वित्तीकंतारेणं • इत्याकारकरणान्मिथ्यादृशोऽपि यदि सेवां कुर्यात्तदापि यथाशक्ति-युक्ति स्वधर्मबाधां टालयति । अन्यप्रकारेण स्वल्पेऽपि निर्वाहयोगे तु