________________
१०६
श्राद्धविधिकौमुदीसक्षेपः । राजा तुष्टोऽपि भृत्यानां मानमानं प्रयच्छति ।
ते तु सन्मानितास्तस्य प्राणैरप्युपकुर्वते ॥ सेवां च सततमप्रमत्तः कुर्यात् । तदाह
सर्पान् व्याघ्रान् गजान् सिंहान् दृष्ट्वोपायैर्वशीकृतान् ।।
राजेति कियती मात्रा धीमतामप्रमादिनाम् ॥ तद्विधिश्च नीतिशास्त्रादावेवम्
आसीत स्वामिनः पार्श्वे तन्मुखेऽक्षीकृताञ्जलिः । स्वभावं चास्य विज्ञाय दक्षः कार्याणि साधयेत् ॥ नात्यासन्नो न दूरस्थो न समोच्चासनस्थितः । न पुरस्थो न पृष्टस्थस्तिष्ठेत् सदसि न प्रभोः ॥ आसन्ने स्यात् प्रभोर्बाधा दूरस्थेऽप्यप्रगल्भता । पुरस्थितेऽन्यकोपोऽपि तस्मिन् पश्चाददर्शनम् ॥ , श्रान्तं बुभुक्षितं क्रुद्धं व्याकुलं शयनोन्मुखम् । . . पिपासुमन्नविज्ञप्तं नैव विज्ञापयेद् विभुम् ॥ राजमातरि देव्यां च कुमारे मुख्यमन्त्रिणि । पुरोहिते प्रतीहारे वर्तितव्यं महीशवत् ॥ आदौ मयैवायमदीपि नूनं न तहहेन्मामवहीलितोऽपि । इति भ्रमादङ्गुलिपर्वणाऽपि स्पृश्येत नो दीप इवावनीपः ॥ राज्ञो मान्यत्वेऽपि गर्वः सर्वथा न कार्यो, 'गव्वो मूलं विणासस्स' इत्युक्तेः । एवं सेवया च नृपत्यादिप्रसत्त्सम्भवे ऐश्वर्यादिलाभोऽपि न दुःसम्भवः । यदूचे
इक्षुक्षेत्रं समुद्रश्च योनिपोषणमेव च । प्रसादो भूभुजां चैव सद्यो जन्ति दरिद्रताम् ॥ निन्दन्तु मानिन: सेवां राजादीनां सुखैषिणः ।
स्वजनाऽस्वजनोद्धारसंहारौ न तया विना ॥ कुमारपालनृपो नष्टचर्यायां सम्यक्सेवातुष्टो वोसिरिविप्राय लाटदेशं