SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ प्रथमः- - प्रकाश: 'प्रणमत्युन्नतिहेतोर्जीवितहेतोर्विमुञ्चति प्राणान् । दुःखीयति सुखहेतोः को मूर्खः सेवकादन्यः ॥ सेवा श्ववृत्तिर्यैरुक्ता न तैः सम्यगुदाहृतम् । श्वानः कुर्वन्ति पुच्छेन चाटु मूर्ध्ना तु सेवकाः ॥ एवं सत्यप्यन्यनिर्वाहोपायाभावे सेवयाऽपि निर्वाहं करोति । यतः - धणवं वाणिज्जेणं, थोवधणो करिसणेण निव्वह । सेवावित्तीइ पुणो, तुट्टे सयलम्मि ववसाए ॥ विज्ञत्वकृतज्ञत्वादिगुणवांश्च सेवार्हः । उक्तं हिअकर्णदुर्बलः शूरः कृतज्ञः सात्त्विको गुणी । वदान्यो गुणरागी च प्रभुः पुण्यैरवाप्यते ॥ क्रूरं व्यसनिनं लुब्धमप्रगल्भं सदामयम् । मूर्खमन्यायकर्त्तारं नाधिपत्ये नियोजयेत् ॥ अविवेकिन भूपाले करोत्याशां समृद्धये । योजनानां शतं गन्तु करोत्याशां समृद्धये ॥ कामन्दकीयें नीतिसारेऽपि - वृद्धोपसेवी नृपतिः सतां भवति सम्मतः । प्रेर्यमाणोऽप्यसद्वृत्तैर्नाकार्येषु प्रवर्त्तते ॥ स्वामिना च सेवकानुरूपं सन्मानादि कार्यम् । यतः— निर्विशेषं यदा राजा समं भृत्येषु वर्त्तते । तंत्रोद्यमसमर्थानामुत्साहः परिहीयते ॥ १०५ सेवकेनापि भक्तिचातुर्यादिगुणयुजा भाव्यम् । यतः— अप्राज्ञेन च कातरेण च गुणः स्यात्सानुरागेण क: ?, प्रज्ञाविक्रमशालिनोऽपि हि भवेत् किं भक्तिहीनात् फलम् ? । प्रज्ञाविक्रमभक्तयः समुदिता येषां गुणा भूतये, भृत्या नृपतेः कलत्रमितरे संपत्सु चापत्सु च ॥ १. मृण्मये अश्वे ।
SR No.002257
Book TitleShraddhvidhi Kaumudi
Original Sutra AuthorN/A
AuthorVairagyarativjay
PublisherPravachan Prakashan
Publication Year2006
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy