________________
१०४
श्राद्धविधिकौमुदीसक्षेपः यदाह
वापकालं विजानाति भूमिभागं च कर्षकः । कृषि साध्यां पथि क्षेत्रं यश्चोज्झति स वर्द्धते ॥ . पाशुपाल्यं श्रियो वृद्धयै कुर्वन्नोज्ञद्दयालुताम् ।
तत्कृत्येषु स्वयं जाग्रच्छविच्छेदादि वर्जयेत् ॥ शिल्पं शतधा । यतः
पंचेव य सिप्पाइं, घडलोहेचित्तऽणंतकासवए।
इक्विक्कस्स य इत्तो, वीसं वीसं भवे भेआ ॥ .. व्यक्तिविवक्षया त्वधिकभेदमपि शिल्पं स्यात् । इह चाचार्योपदेशजं. शिल्पं ऋषभस्वाम्युपदेशेन प्रवृत्तत्वात् । आचार्योपदेशं विना परम्परया प्रवृत्तं तु कृषिवाणिज्यादि कर्मोच्यते । यदा
कम्मं जमणायरिओवएसियं सिप्पमन्नहाऽभिहिअं। .. किसिवाणिज्जाइअं, घडलोहाराइभेअं च ॥ . अत्र कृषिवाणिज्यपाशुपाल्यानि साक्षादुक्तानि । शेषकार्याणि प्रायः सर्वाणि शिल्पादौ । स्त्रीपुरुषकलास्तु काश्चिद् विद्यायां, काश्चिच्च शिल्पेष्वन्तर्भवन्ति । कर्म च सामान्यतश्चतुर्भेदम् । यदाह
उत्तमा बुद्धिकर्माणः करकर्मा च मध्यमः ।
अधमाः पादकर्माण: शिरःकर्माऽधमाधमः ॥ अत्र बुद्धिकर्मत्वे ज्ञातम् । करकर्मा वाणिज्यादिकृत्, पादकर्मा दूतादिः, शिर:कर्मा भारवाहकादि: ५।
सेवा नृपति-नियोगि-महेभ्येतरसेवाभेदाच्चतुर्भेदा । नृपादिसेवा च नित्यपारवश्यादिना येन तेन दुःसाधा । यतः
मौनान्मूकः प्रवचनपटुर्वातिको जल्पको वा धृष्टः पार्वे भवति च तथा दूरतश्चाप्रगल्भः । क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥