________________
प्रथमः प्रकाशः
१०३ चूडामणि-धर्मार्थ-काम-ज्योतिस्तर्कादिभेदैर्नानाविधा । इह वैद्यविद्या गान्धिकत्वं च प्रायो दुर्ध्यानसम्भवादिना विशेषगुणाय न दृश्यते । यद्यपि सधनमान्द्यादौ वैद्यगान्धिकयो रिलाभः स्थाने बहुमानादि च स्यात् । यतः-आतुरे हि पिता वैद्यः । तथा
रोगिणां सुहृदो वैद्याः प्रभूणां चाटुकारिणः । - मुनयो दुःखदग्धानां गणकाः क्षीणसंपदाम् ॥
पण्यानां गान्धिकं पण्यं किमन्यैः काञ्चनादिकैः । ". यत्रैकेन गृहीतं यत्तत्सहस्रेण दीयते ॥ तथापि यस्य यथा लाभः स. प्रायस्तथैवेहते । तदुक्तंविग्रहमिच्छन्ति भटा वैद्याश्च व्याधिपीडितं लोकम् । . मृतकबहुलं च विप्राः क्षेमसुभिक्षं च निर्ग्रन्थाः ॥ यो व्याधिभिर्ध्यायति बाध्यमानं जनौघमादातुमना धनानि । व्याधीन् विरुद्धौषधतोऽस्य वृद्धि नयेत् कृपा तत्र कुतोऽस्तु वैद्ये ॥
केचिच्च दर्शनि-दरिद्राऽनाथम्रियमाणादिभ्योऽपि प्रसह्य द्रव्यं 'जिघृक्षन्ति । अभक्ष्यौषधाद्यपि कारयन्ति । विविधौषधादिकपटवृत्त्या । जनानू विप्रतारयन्ति । द्वारवतीवैद्याऽभव्यधन्वन्तरिषत् । ये तु सत्प्रकृतयः
स्वल्पलोभाः परोपकारिणस्तेषां वैद्यविद्या श्रीऋषभस्वामिजीवजीवा• नन्दवैद्यवद् भवद्वयेऽपि गुणाय २॥ . कृषिर्जलदजलकूपादिजलोभयजलनिष्पाद्यभेदात् त्रिविधा ३।
पशुपाल्यं गो-महिष्यजा-करभ-वृषभ-हय-गजाजीविकादिभेदादनेकप्रकारम् । कृषिपाशुपाल्ये च न विवेकिजनोचिते । उच्यते हि
रायाण दंतिदंते बइल्लखंधेसु पामरजणाणं ।
सुहडाण मण्डलग्गे, वेसाण पओहरे लच्छी॥ अनिर्वहंस्तु यदि कुर्यात्तदा वापकालाद्याकलनदयालुत्वादि धार्यम् ।