________________
१०२
श्राद्धविधिकौमुदीसक्षेपः ववहारसुद्धि-देसाइविरुद्धचाय-उचिअचरणेहिं ।
तो कुणइ अत्थचिंतं, निव्वाहितो निअं धम्मं ॥७॥ ततः प्रागुक्तकृत्यानन्तरं व्यवहारस्य धनार्जनाधुपायस्य शुद्धिनिर्दोषता मनोवाक्कायाऽवक्रतेत्यर्थः । तथा देशादिविरुद्धकृत्यानां त्यागः परिहारः । उचितकृत्याचरणं च । एभिस्त्रिभिरपि वक्ष्यमाणलक्षणं निजं धर्म स्वीकृतव्रताभिग्रहादिरूपं निर्वाहयन्, नतु क्वचन किञ्चनापि लोभाधिक्यविस्मृत्यादिना बाधयन्, अर्थचिन्तां धनार्जनाद्यौपयिकं करोति । यदाह
नहि तद्विद्यते किञ्चिद्यदर्थेन न सिद्धयति । .
यत्नेन मतिमांस्तस्मादर्थमेकं प्रसाधयेत् ॥ .. अत्र चार्थचिन्तामित्यनुवाद्यं, तस्याः स्वयंसिद्धत्वात् । धर्म निर्वाहयन्निति तु विधेयम्, अप्राप्तत्वात् । तदुक्तं- इह लोइअम्मि कज्जे, सव्वारंभेण जह जणो जयइ।
तह जइ लक्खंसेण वि, धम्मे ता किं न पज्जत्तं ॥ . आजीविका च सप्तभिरुपायैः स्याद् । वाणिज्येनं, विद्यया, कृष्या, पाशुपाल्येन, शिल्पेन, सेवया, भिक्षया च । तत्र वाणिज्येन वणिजां, विद्यया वैद्यादीनां, कृष्या कौटुम्बिकादीनां, पाशुपाल्येन गोपालाऽजापालादीनां, शिल्पेन चित्रकारादीनां, सेवया सेवकानां, भिक्षया भिक्षाचराणाम् । ___ तत्र वाणिज्यं धान्य-घृत-तैल-कर्पास-सूत्र-वस्त्र-धातु-मणिमौक्तिकनाणकादिक्रयाणक भेदैरनेकविधम् । लोके हि षष्ठ्यधिका त्रिशती क्रयाणकानि इति प्रसिद्धिः । भेदप्रभेदादिव्यक्तिविवक्षायां त्वलब्धसङ्ख्यान्यपि तानि । कलान्तरव्यवहारोऽपि वाणिज्येऽन्तर्भवति १।
विद्याप्यौषध-रस-रसायन-चूर्णाञ्जन-वास्तु-शकुन-निमित्त-सामुद्र