________________
प्रतियोग
.
.
प्रथमः प्रकाशः
१०१ पुनः प्रवृत्तौ निष्ठुरभाषणादिना ताडनम्, उचितेन वस्तुनोपचरणं चेति । • तथा गुरुपायें करोति किञ्चिदपूर्वपठनम् । यतः.. अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य च वर्द्धनम् ।
अवन्ध्यं दिवसं कुर्याद्दानाध्ययनकर्मसु ॥ संतोषस्त्रिषु कर्त्तव्यः स्वदारे भोजने धने । त्रिषु चैव न कर्तव्यो दाने चाध्ययने तपे ॥ गृहीत इव केशेषु मृत्युना धर्ममाचरेत् । अजरामरवत् प्राज्ञो विद्यामर्थञ्च चिन्तयेत् ॥ जह जह सुअमवगाहइ, अइसयरसपसरसंजुअमपुव्वं । तह तह यल्हाइ मुणी, नवनवसंवेगसद्धाए ॥
जो इह पढइ अपुव्वं, स लहइ तित्थंकरतमन्नभवे । . जो पुण पाढेइ परं, सम्मसुअं तस्स किं भणिमो ॥
स्वल्पतरप्रज्ञतायामपि पाठोद्यमे माषतुषादीनामिव तद्भवेऽपि केवलज्ञानलाभादिफलं विभावनीयमिति षष्ठगाथार्थः ॥ ..' ततो यदि राजादिस्तदा धवलगृहम् यदा त्वमात्यादिस्तदा करणम्, अथ. वणिगादिस्तदानीमापणादिकम्, एवं स्वस्वोचितस्थानं गत्वा धर्माविरोधेनार्थचिन्तां कुर्यात् । धर्माविरोधश्च राज्ञां दरिद्रेश्वरयोर्मान्या‘मान्ययोरुत्तमाधमयोश्च माध्यस्थ्येन न्यायदर्शनाद् बोद्धव्यः । अत्र न्याये दृष्टान्तः .
. नियोगिनां तु धर्माविरोधो राजार्थप्रजार्थयोः साधनेनाऽभयकुमारचाणक्यादिवत् । यतः
नरपतिहितकर्ता द्वेष्यतामेति लोके जनपदहितकर्ता मुच्यते पार्थिवेन ।
इति महति विरोधे वर्तमानेऽसमाने नृपतिजनपदानां दुर्लभः कार्यकर्ता ॥ ... वणिगादिनां च धर्माविरोधो व्यवहारशुद्ध्यादिना तथैव चाहं