SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १०० श्राद्धविधिकौमुदीसङ्क्षेपः भद्रादिः औषधदाने च श्रीवीरौषधदात्री बद्धजिनकर्मा रेवती ज्ञातम् । ग्लानस्य प्रतिचरणे च महत् फलम् । यदागमः 1 'गोअमा ! जे गिलाणं पडिअरइ से मं दंसणेणं पडिवज्जइ । जे मं दंसणेणं पडिवज्जइ से गिलाणं पडिअरइ । आणाकरणसारं खु अरिहंताणं दंसणं' इत्यादि । , अत्र कृमिकुष्ठोपद्रुतयतिप्रतिक्रियाकृत् श्रीऋषभजीवजीवानन्दवैंद्यो ज्ञातम् । तथा ददाति सुस्थाने योग्यमुपाश्रयादि । यतः - वसहीसयणासणभत्तपाणभेसज्जवत्थपत्ताई । जइवि न पज्जत्तधणो, थोवा वि हु थोवयं देइ ॥ जो देइ उवस्सयं जइवराण तवनियमजोगजुत्ताणं । तेणं दिन्ना वत्थन्नपाणसयणासणविंगप्पा ॥ जयन्तीवङ्कचूलाद्याः कोशा चाश्रयदानतः । अवन्तिसुकुमालश्च तीर्णाः संसारसागरम् ॥ तथा निवारयति सर्वशक्त्या जिनप्रवचनप्रत्यनीकान् साधुनिन्दादि - परान् । यतः तम्हा सइ सामत्थे, आणाभट्ठम्मि नो खलु उवेहा । अणुकूलेहिअरेहि अ, अणुसट्ठी होइ दायव्वा ॥ यथाऽभयकुमारेण द्रमकमुनिनिन्दाकृज्जनो बुद्ध्या निवारितः । एवं साधुवत्साध्वीनामपि सुखकृत्यनिर्वाहप्रश्नादि सर्वं कार्यम् । एतच्चाधिकं यत् साध्वीनां दुःशीलेभ्यो नास्तिकेभ्यो गोपनम् । स्वगृहप्रत्यासत्तौ समन्ततो गुप्ताया गुप्तद्वारवसतेर्दानम् । स्वस्त्रीभिश्च तासां परिचर्या - विधापनम् । स्वपुत्रिकाणां च तत्सन्निधौ धारणम् । व्रतोद्यतानां स्वपुत्र्यादीनां च प्रत्यर्पणम् । तथा विस्मृतकरणीयानां तत्स्मारणम्, अन्यायप्रवृत्तिसम्भवे तन्निवारणम् । सकृदन्यायप्रवृत्तौ शिक्षणम् । पुनः
SR No.002257
Book TitleShraddhvidhi Kaumudi
Original Sutra AuthorN/A
AuthorVairagyarativjay
PublisherPravachan Prakashan
Publication Year2006
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy