________________
प्रथमः प्रकाशः
९७
-पर्यस्तिका अवष्टम्भं तथा पादप्रसारणम् । विकथाः प्रबलं हास्यं वर्जयेद् गुरुसन्निधौ ॥ निहाविकहापरिवज्जिएहिं गुत्तेहिं अंजलिउडेहिं ।
भत्तिबहुमाणपुव्वं उवउत्तेहिं सुणेअव्वं ॥ इत्यादिश्रुतोक्तविधिना गुरोराशातनावर्जनार्थमर्द्धचतुर्थहस्तप्रमाणादवग्रहक्षेत्राद् बहिर्निर्जन्तुभूभागेऽवस्थाय धर्मदेशना श्रोतव्या । यतः
धन्यस्योपरि निपतत्यहितसमाचरणधर्मनिर्वापी ।
गुरुवदनमलयनिःसृतवचनसरसचन्दनस्पर्शः ॥ धर्मदेशनाश्रवणे चाज्ञानमिथ्याज्ञानव्यपगम-सम्यक्तत्त्वावगमनि:संशयत्व-धर्मदृढत्व-व्यसनाधुन्मार्गनिवृत्ति-सन्मार्गप्रवृत्ति-कषायादिदोषोपशम-विनयादिगुणार्जनोपक्रम-कुसंसर्गपरिहार-सुसंसर्गाङ्गीकारभवनिर्विण्णता-संविग्नता-सम्यक्श्राद्धसाधु-धर्माभ्युपगमन-सर्वाङ्गीणतदैकाग्र्याराधनादयोऽनेके गुणा नास्तिकप्रदेशिनरेश-श्रीमदाम-कुमारपालथावच्चापुत्रादीनामिव मन्तव्याः । तदाह: मोहं धियो हरति कापथमुच्छिनत्ति, संवेगमुन्नमयति प्रशमं तनोति । . . सूते विरागमधिकं मुदमादधाति, जैनं वचः श्रवणतः किमु 'वा न दत्ते ॥
पिण्डः पाती बन्धवो बन्धभूताः सूतेऽनर्थानर्थसंपेंद्विचित्रान् ।
संवेगाद्या जैनवाक्यप्रसूताः कं कं कुर्युर्नोपकारं नराणाम् ॥ - अत्र थावच्चापुत्रकथा । तस्मात् प्रत्यहं सद्गुरुभ्यः शृणोति धर्मोपदेशम्। श्रुत्वा चानुतिष्ठति तदादिष्टमर्थं यथाशक्ति । यतो नौषधभक्ष्यादिज्ञानमात्रेणाऽऽरोग्यतृप्त्यादि किन्तु क्रियोपयोग एव । आह च
क्रियैव फलदा पुंसां न ज्ञानं फलदं मतम् । यतः स्त्री-भक्ष्य-भोगज्ञो न ज्ञानात् सुखितो भवेत् ॥ जाणंतो वि अ तरिउं, काइअजोगं न जुंजइ नइए। सो बुज्झइ सोएणं एवं नाणी चरणहीणो ॥
१. यन्न इति को० ह० प्र० पाठः ।