________________
श्राद्धविधिकौमुदीसक्षेपः दशाचूर्णावपि-जो अकिरिआवाइ सो भविओ अभविओ वा निअमा किण्हपक्खिओ । किरिआवादी निअमा भविओ, निअमा सुक्कपक्खिओ, अंतों पुग्गलपस्अिट्टस्स नियमा सिज्झहिइ, सम्मट्ठिी वा हुज्जा । न च ज्ञानरहिता क्रियापि परिणतिरहिता । यतः
अन्नाणा कम्मखओ, जायइ मण्ड्डक्कचुण्णतुल्लत्ति । सम्मकिरिआइ सो पुण, नेओ तच्छारसारिच्छो ॥ जं अन्नाणी कम्म, खवेइ बहुआहिं वासकोडीहिं।
तं नाणी तिहिं गुत्तो, खवेइ ऊसासमित्तेण ॥ .. अत एव तामलिपूरणादीनां बहुतप:क्लेशेऽपीशानेन्द्रत्वचमरेन्द्रत्वाद्यल्पफलम् । ज्ञानवतोऽपि श्रद्धानं विनाऽङ्गारमर्दकादेरिव न सम्यक्रियायां प्रवृत्तिः । पठ्यते च- ..
. अज्ञस्य शक्तिरसमर्थविधेर्निबोधस्तौ चारुचेरियममू तुदती न किञ्चित् । अन्धामिहीनहतवाञ्छितमानसानां दृष्टा न जातु हितवृत्तिरनन्तरायाः ॥
ततो ज्ञानदर्शनचारित्रयोगे मोक्ष इति तत्त्रयाराधनाय यतेतेति तात्पर्यम् । तथा पृच्छति यतिकृत्यनिर्वाहम् । यथा निर्वहति युष्माकं संयमयात्रा ? सुखरात्रिर्भवतां ? निराबाधाः शरीरेण यूयं ? न बाधते वः कश्चिद् व्याधिः ? 'नः योग्यं किमपि वैद्यादेवः प्रयोजनं किञ्चिदौषधादिना? नार्थित्वं किञ्चित्पथ्यादिना ? इत्यादि । एवं प्रश्नश्च महानिर्जराहेतुः । यतः
अभिगमणनवंदणनमंसणेण पडिपुच्छणेण साहूणं ।
चिरसंचिअंपि कम्मं, खणेण विरलत्तणमुवेइ ॥ प्राग्वन्दनाऽवसरे सामान्यत:-सुहराईसुहतपसरीरनिराबाधेत्यादिप्रश्नकरणेऽपि विशेषेणात्र प्रश्नः सम्यक्स्वरूपपरिज्ञार्थस्तदुपायकरणार्थश्च । अत एव' पदोर्लगित्वा, 'इच्छाकारि भगवन् पसाउ करी फासुएणं
१. न योग्यं इति भाव्यम् । २. एवात्र इति को० ह० प्र० पाठः ।