________________
श्राद्धविधिकौमुदीसङ्क्षपः स्वरूपं किञ्चित्प्रागुक्तम् । फलं तु षण्मास्याचाम्लतपोऽनन्तरमहेभ्यनृपखेचरेन्द्रादिद्वात्रिंशत्कन्यापरिणेतृधम्मिलादीनामिवेहलोके, परलोके तु चतुर्हत्यादिमहापातककृत्षण्मासीतपस्तद्भवसिद्धदृढप्रहार्यादेरिव प्रतीतम् । उक्तमपि
पच्चक्खाणम्मि कए, आसवदाराई हुंति पिहिआईं। आसववुच्छेओण य, तण्हावुच्छेअणं हवइ । ' तण्हावुच्छेएणं, अउलोवसमो भवे मणुस्साणं।
अउलोवसमेण पुणो, पच्चक्खाणं हवइ सुद्धं ॥ . तत्तो चरित्तधम्मो, कम्मविवेगो अपुव्वकरणं तु।
तत्तों केवलनाणं तत्तो मुक्खो सयासुक्खो ॥ ततो वन्दते यथाविधि चतुर्विधं साध्वादिसङ्घम् । चैत्यादौ गुर्वागमनाद्यवसरे चाभ्युत्थानादिप्रतिपत्तिः कार्या । यदाहुः
अभ्युत्थानं तदालोकेऽभियानं च तदागमे। शिरस्यञ्जलिसंश्लेषः स्वयमासनढौकनम् ॥ आसनाभिग्रहो भक्त्या वन्दना पर्युपासनम् ।
तद्यानेऽनुगमश्चेति प्रतिपत्तिरियं गुरोः ॥ आसनाभिग्रह इति आसने उपविष्टेषु गुर्वादिषु स्वयमासितव्यमित्यभिग्रहः । ततश्च
न पक्खओ न पुरओ नेव किच्चाण पट्टओ।
न य उरूं समाज्ज, चिट्ठिज्जा गुरुणंतिए ॥ 'पक्खओत्ति' पक्षतः पार्श्वयोरविनयसम्भवात् । 'किच्चाणत्ति' कृत्यानां गुरूणाम् ।
नेव पल्हत्थिअं कुज्जा, पक्खपिण्डं च संजए।
पाए पसारिए वावि न चिटे गुरुणंतिए ॥ 'पल्हत्थिअंति' पर्यस्तिकां 'पक्षपिण्ड' बाहुपर्यस्तिकां, 'संजएत्ति' प्रस्तावाद्देशसंयतः ।