SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः. ईर्यापथिकी प्रथमं प्रतिक्रम्यते, तदनु कुसुमिणेत्यादि कायोत्सर्गः शतोच्छासमानः, कुस्वप्नाद्युपलम्भे त्वष्टोत्तरशतोच्छ्वासमानः, ततश्चैत्यवन्दना, ततः 'पुत्तित्ति' मुखवस्त्रिकाक्षमाश्रमणपूर्वं प्रतिलेख्या, ततो वन्दनकद्वयमालोचनं च, पुनर्वन्दनकद्वयं क्षामणकं च, पुनर्वन्दनकद्वयं 'संवरत्ति' प्रत्याख्यानं च, 'चउथोभत्ति' भगवन् इत्यादीनि चत्वारि क्षमाश्रमणानि, ततः सज्झायसन्दिसावउं, सज्झायकरउं इति क्षमाश्रमणद्वयं दत्त्वा स्वाध्यायः कार्यः । इति प्रातस्त्यवन्दनकविधिः । . प्रथममीर्यापथिकी प्रतिक्रमणं, ततश्चैत्यवन्दना, क्षमाश्रमणपूर्वं मुखवस्त्रिका प्रतिलेखनं, वन्दनकद्वयं, दिवसचरिमं इति प्रत्याख्यानं च, ततो वन्दनकद्वयमालोचनं च. वन्दनकद्वयं क्षामणं च, भगवन् इत्यादि थोभवन्दनानि चत्वारि, ततो देवसिअपायच्छित्तेत्ति कायोत्सर्गः ततः प्राग्वत् क्षमाश्रमणद्वयं दत्त्वा स्वाध्यायः । अयं सान्ध्यवन्दनकविधिः । गुरोर्व्याक्षिप्तत्वादिना द्वादशावर्त्तवन्दनकायोगे थोभवन्दनेनापि गुरुं वन्दते । एवं वन्दनपूर्वं गुरुपार्श्वे प्रत्याख्यानं कार्यम् । उक्तञ्च..प्रत्याख्यानं यदासीत्तत्करोति गुरुसाक्षिकम् । विशेषेणाथ गृह्णाति, धर्मोऽसौ गुरुसाक्षिकः ॥ . गुरुसाक्षित्वे हि दृढता 'गुरुसक्खिओ' इति जिनाज्ञाराधनं गुरुवाक्योद्भूतशुभाशयादधिकः क्षयोपशमः, तस्माच्चाधिका प्रतिपत्तिरित्यादिर्गुणः । तत्प्रोक्तं श्रावकप्रज्ञप्तौ . संतम्मिवि परिणामे, गुरुमूलपवज्जणंमि एस गुणो। दढया आणाकरणं, कम्मखओवसम वुड्डी अ॥ एवं च दैवसिकचातुर्मासिकनियमाद्यपि सम्भवे गुरुसाक्षिकं स्वीकार्यम् । अत्र द्वादशावर्त्तवन्दनविधिः । पञ्चनामादिभिर्द्वाविंशत्या मूलद्वारैर्द्विनवत्यधिकचतुःशतीप्रतिद्वाररूपः । प्रत्याख्यानविधिश्च दशप्रत्याख्यानादिनवमूलद्वारैर्नवतिप्रतिद्वारात्मको भाष्यादेरभ्यूह्यः । प्रत्याख्यानस्य
SR No.002257
Book TitleShraddhvidhi Kaumudi
Original Sutra AuthorN/A
AuthorVairagyarativjay
PublisherPravachan Prakashan
Publication Year2006
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy