________________
९४
श्राद्धविधिकौमुदीसङ्क्षेपः
सः । तथा आचारपञ्चकव्याख्या त्वस्मदुपज्ञादाचारप्रदीपग्रन्थाद् ज्ञेया । एवंविधस्य गुरोराचार्यादेः पार्श्वे प्रत्याख्यानं स्वयं यत्प्राक्कृतं तदेव विशिष्टं वा विधिनोच्चारयति, गुरुमुखेन प्रतिपद्यते इत्यर्थः । त्रिविधं हि प्रत्याख्यान-विधानम् आत्मसाक्षिकं देवसाक्षिकं गुरुसाक्षिकं च । तद्विधिश्चायं, चैत्ये देववन्दनार्थमागतानां स्नात्रादिदर्शनधर्मदेशनाद्यर्थं तत्रैव स्थितानां वसतौ वा चैत्यवन्नैषेधिकीत्रयाभिगमपञ्चकादियथार्हविधिना गत्वा सद्गुरूणां धर्मदेशनायाः प्राक् पश्चाद्वा यथाविधि पञ्चविंशत्यावश्यकविशुद्धं द्वादशावर्त्तवन्दनं दत्ते । महाफलं चेदम् । यतः -
नीआगोअं खवे कम्मं, उच्चागोअं निबंधए । सिढिलं कम्मठितु, वंदणेणं नरो करें | तित्थयरत्तं सम्मत्तखाइअं सत्तमी त आए । आउं वंदणएणं, बद्धं च दसारसीहेण ॥
शीतलाचार्यस्य वन्दनार्थागतविकालबहिःस्थितरात्रिजातकेवलचतुर्भागिनेयानां प्राक्कुधा द्रव्यवन्दनं तदुगिरा भाववन्दने तु केवलम् । गुरुवन्दनं च त्रिधा । यद् भाष्यं -
गुरुवंदणमह तिविहं, तं फिट्टा - थोभ - बारसावत्तं । सिरनमणाइसु पढमं, पुन्नखमासमणदुगि बीअं ॥ तइअं तु छंदणदुगे, तत्थमिहो आइमं सयलसंघे । बीअं तु दंसणीण य पयट्ठिआणं च तइअं तु ॥
येन च प्रतिक्रमणं कृतं न स्यात्तेन विधिना वन्दनं दातव्यम् ।
यद्भाष्ये
आकुसुमिस्सग्गो चिड़वंदण पुत्ति वंदणालोयं । वंदण खामण वंदण संवरच उथोभदुसज्झाओ ॥
इरिआचिइवंदणपुत्तिवंदणं चरिमवंदणालोअं । वंदणखामणचउथोभदिवसुसग्गो दुसज्झाओ ॥
अनयोर्व्याख्या–