________________
प्रथमः प्रकाशः. निःस्वसाधर्मिकाणां विशिष्टमेव वस्तु अर्पयितुं युक्तम्, अन्यथा धर्मावज्ञादिदोषः । युक्तौ निःस्वानां सस्वेभ्योऽधिकं दीयते । तदयुक्तौ सर्वेषां समम् । श्रूयते हि यमुनापुरे ठक्कुरजिनदासेन धनिनां दर्शनमोदके एकैकः सौवर्णः क्षिप्तः, निःस्वानां तु द्वौ द्वौ । मुख्यवृत्त्या पित्रादेः पुत्रादेश्च मिथोव्ययादिमाननं प्रागेव कार्य, को वेद क्व कथं कस्य वा मृतिः स्यादिति । यच्च मानितं तत् पृथगेव व्ययितव्यम् । स्वयं क्रियमाणभोजनदानादिरूपव्ययमध्ये न क्षेप्यं, मुधा धर्मस्थाने दोषापत्तेः । एवं सति ये यात्रादौ भोजनशकटसम्प्रेषणादिव्ययं सर्वं मानितव्ययमध्ये गणयन्ति, तेषां मूढानां न ज्ञायते का गतिः ? यात्राद्यर्थं हि यावन्मानितं तावद्देवादि द्रव्यं जातं, तस्यान्यत्र' स्वभोजनादौ व्यये कथं न देवादिद्रव्योपभोगदोषः ? । एवञ्चाज्ञानप्रज्ञापराधादिना यः कश्चित्कचिद्देवादिद्रव्योपभोगो जातः स्यात्, तत्प्रायश्चित्तपदे उपभोगसम्भवानुसारेण कियत् कियत् स्वद्रव्यं देवज्ञानसाधारणसम्बन्धि करोति । अन्त्यावस्थायां च विशिष्य । अन्यत्र हि धर्मपदादौ शक्त्याद्यभावे व्ययः स्वल्पोऽपि भवतु। ऋणं तु सर्वं सम्यक् संशोध्यं, विशिष्य च देवादिविषयम् यदवादिष्म
ऋणं ह्येकक्षणं नैव धार्यमार्येण कुत्रचित् । . .. - देवादिविषयं तत्तु कः कुर्यादतिदुस्सहम् ॥ • तस्मात् सर्वत्र वैविक्त्यं कार्यं सुधिया । आह च -
प्रतिपच्चन्द्रं 'सरभि, नकली नकुलः पयश्च कलहंसः । ... -चित्रकवल्ली पक्षी सूक्ष्मं धर्मं सुधीर्वेत्ति ॥ इत्यलं प्रसङ्गेन ।
अथ गाथोत्तरार्द्धव्याख्या एवं जिनार्चा विधाय, दृढा न तु शिथिलाः पञ्च ज्ञानादय आचाराः, 'काले विणए बहुमाणे इत्याद्यागमोक्ता यस्य
१. तस्यान्येन इति को० ह० प्र० पाठः । २. सुरनी इति को० ह० प्र० पाठः ।