________________
श्राद्धविधिकौमुदीसक्षेपः रक्षणीयं, सम्यग् मूल्यादियुक्त्वा च विक्रेयं, न तु यथा तथा मोच्यं, देवद्रव्यविनाशादिदोषापत्तेः । सर्वप्रयत्नेन रक्षणादिचिन्ताकरणे जातु चौराग्न्याधुपद्रवाद्देवद्रव्यादि विनश्यति, तदा तु चिन्ताकर्ता निर्दोष एवावश्यंभाविभावस्याऽप्रतिकार्यत्वात् । देवगुरु-यात्रा-तीर्थ-सङ्घार्चासाधर्मिकवात्सल्य-स्नात्रप्रभावना-ज्ञानलेखन-वाचनादौ यद्यन्यसत्कधनं व्ययार्थं गृह्यते तदा चतुष्पञ्चसमक्षमेव ग्राह्यम् । व्ययसमये च गुरुसङ्घाद्यग्रे सम्यक् स्फुटं स्वरूपं वाच्यम्, अन्यथा दोषः । तीर्थादौ च पूजास्नात्रध्वजपरिधापनिकाद्यवश्यकृत्येष्वन्यधनं न क्षेप्यम् । तानि यथाशक्ति स्वयं कृत्वाऽन्यधनं महापूजाभोगाङ्गाद्यर्चनादिना सर्वसमक्षं पृथगेवं व्ययितव्यम् । यदा बहुभिः संभूय यात्रावात्सल्यसङ्घार्चादि क्रियते, तदा येषां यथाभागस्तथा सम्यग् वाच्यम्, अन्यथा पुण्यव्ययचौर्याद्यापत्तेः । तथा अन्त्यावस्थायां पित्रादीनां यन्मान्यते, तत्सविधानत्वे गुरुश्राद्धादिबहुसमक्षमेवं वाच्यम् । यद्भवन्निमित्तमियद्दिनमध्ये इयद् व्ययिष्यामि, तदनुमोदना भवद्भिः कार्येति । तदपि सद्यः सर्व[प्रति] ज्ञातं व्ययितव्यम् । स्वनाम्ना व्यये स्तैन्यादिदोषः पुण्यस्थानेऽपिं, स च महर्षेरपि हीनताहेतुः । यदार्षम्
तवतेणे वयतेणे, रूवतेणे य जे नरे। .. __ आयारभावतेणे अ, कुव्वई देवकिव्विसं ॥
धर्मव्ययश्च मुख्यवृत्त्या साधारण एव क्रियते, यथा. यथा विशेषविलोक्यमाने धर्मस्थाने तदुपयोगः स्यात् । सप्तक्षेत्र्यां हि यत्सीदत् क्षेत्रं स्यात् तदुपष्टम्भे भूयान् लाभो दृश्यते । सीदन् श्राद्धोऽपि तदुपष्टम्भेन सधनीभूतः सप्तक्षेत्रीमपि पुष्णाति । लोकेऽप्युक्तं
दरिद्रं भर राजेन्द्र ! मा समृद्धं कदाचन ।
व्याधितस्यौषधं पथ्यं नीरोगस्य किमौषधम् ॥ . . अत एव प्रभावनासङ्घपरिधापनिकासम्यक्त्वमोदकलम्भनादौ