________________
प्रथमः प्रकाशः . मालयादि नव्यं कार्यते, तत्र यल्लगति तद् भाटकमध्ये न वाल्यं, साधारणद्रव्योपजीवनदोषापत्तेः । सीदन् सार्मिकस्तु सङ्घोक्त्या भाटकार्पणं विनापि साधारणे गृहे वसति । तथान्यस्थानाभावे तीर्थादौ चैत्ये यदि बहुस्थितिस्वापादि क्रियते तदापि व्यापारणानुसारेणाऽधिकनिष्क्रयो मोच्यः । स्तोकनिष्क्रयार्पणे स्पष्ट एव दोषः । एवं च सम्यग् निष्क्रयार्पणं विना देवज्ञानसाधारणसत्कं, कर्पटक-नालिकेरस्वर्ण-रूप्य-पट्टिका-कलश-पुष्प-पक्वान्न-सुखभक्षिकादिकमुद्यापननन्दि-पुस्तिकार्चादौ न मोच्यम् । उद्यापनादौ हि प्रौढाडम्बरेण स्वनाम्ना मण्डिते बहुजनश्लाघादि स्यात् । स च स्तोकं निष्क्रयं मुञ्चतीति व्यक्त एव दोषः । तस्मादुद्यापमढौकनादौ निष्क्रयग्राह्यवर्तुलिकानालिकेरमोदकार्यावन्मूल्यं स्यात्तावत्तन्निष्पादनानयनाद्युपक्रमपदे तदनुसारेण कियदधिकं चार्पणीयम् । एवं निष्क्रयशुद्धिः । केनचित् सविस्तरोद्यापनादौ स्वनाम्ना मण्डितेऽधिकशक्त्याद्यभावात्तदुद्यापनाचारसत्यापनार्थं कश्चिद्यावन्मुञ्चति, तावतापि न दोषः । तथा स्वगृहचैत्यढौकितचोक्षपूगीफलनैवेद्यादिविक्रयोत्थं पुष्पभोगादि स्वगृहचैत्ये न व्यापार्यम् । नापि चैत्ये स्वयमारोप्यं, किन्तु सम्यक् स्वरूपमुक्त्वार्चकादेः पार्थ्यात्, तद्योगाभावे. तु सर्वेषां स्फुटं स्वरूपमुक्त्वा स्वयमप्यारोपयेत्, अन्यथा मुधाजनप्रशंसादिदोषः । गृहचैत्यनैवेद्यादि चारामिकस्य प्रागुक्तमासदेयस्थाने नायँ, आदावेव नैवेद्यार्पणेन मासदेयोक्तौ तु न दोषः । मुख्यवृत्त्या तु मासदेयं पृथगेव कार्यम् । गृहचैत्यनैवेद्यचोक्षादि तु देवगृहे मोच्यम्, अन्यथा गृहचैत्यद्रव्येणैव गृहचैत्यं पूजितं स्यान्नतु स्वद्रव्येण । तथा चानादरावज्ञादिदोषः । न चैवं युक्तं स्वदेहगृहकुटुम्बाद्यर्थं भूयसोऽपि व्ययस्य गृहस्थेन करणात् । देवगृहे देवपूजापि स्वद्रव्येणैव यथाशक्ति कार्या, न तु स्वगृहढौकितनैवेद्यादिविक्रयोत्थद्रव्येण । देवसत्कपुष्पादिना वा, प्रागुक्तदोषात् । तथा देवगृहागतं नैवेद्याक्षतादि स्ववस्तुवत् सम्यग्