________________
९०
श्राद्धविधिकौमुदीसङ्क्षेपः
न प्रक्षाल्यौ । देवस्य शेषाऽपि पतिता स्वल्पैव च गृह्यते न शरीरादुत्तार्य । देवसत्कं च झल्लरीबेर्यादि गुरूणामपि सङ्घस्यापि चाग्रे न वाद्यम् । केचित्त्वाहुः पुष्टालम्बने यदि देवझल्लर्यादि व्यापार्यते, तदा पूर्व बहुनिष्क्रयो देवस्य मोच्यः । यतः -
मुल्लं विणा जिणाणं, उवगरणं चमरछत्तकलसाई । जो वावार मूढो, नियकज्जे सो हवइ दुहिओ ॥
निष्क्रयं दत्वा स्वकार्यार्थं गृहीतस्य देवझल्लर्यादिकस्य जातु भङ्गादिविनाशे स्वद्रव्येण समारचनं कार्यम् । स्वगृहार्थकृतदीपस्य देवदर्शनार्थमेव देवाग्रे आनयनेऽपि देवसत्कत्वं न स्यात्, पूजार्थमेव देवाग्रे मोचने तु देवसत्कत्वम् । मुख्यवृत्त्या देवदीपकृते कौशिकादि पृथगेव कार्यम् । स्वकौशिकादौ देवपूजार्थं दीपकरणे तु तैलवंर्त्यादि स्वकार्ये न व्यापार्यम् । एवं केनाप्यर्चाकृत्कराङ्घ्रिक्षालनाद्यर्थं यदि जलं चैत्ये मुक्तं स्यात्तदा तज्जलव्यापारणेऽपि न दोषः । तत एव स्वगृहे पिङ्गानिकाचङ्गेरीओरसादि श्रीखण्डकर्पूरकस्तूर्यादि न स्वनिश्रास्थमेव देवपूजादौ व्यापार्यं, न तु देवसत्कं कार्यम् । तथा सति स्वगृहप्रयोजनेऽपि व्यापारयितुं कल्पते, एवं झल्लरीभेर्याद्यपि । यदि साधारणं कृत्वा मुक्तं स्यात्तदा धर्मकार्ये सर्वत्र कल्पते । स्वसत्कं तु साबाणजवनिकादि कियद्दिनानि देवगृहादौ विलोक्यमानत्वेन व्यापारणाय मुक्तमपि देवादिसत्कं न स्यात् अभिप्रायस्यैव प्रमाणीकरणात् । अन्यथा स्वभाजनस्थनैवेद्यढोकने भाजनानामपि देवसत्कीभवनप्रसङ्गः । गृहाट्टादि च देवज्ञानसत्कं भाटकेनापि श्राद्धेन न व्यापार्यं निःशकताद्यापत्तेः । साधारणसम्बन्धि तु सङ्घानुमत्या यदि व्यापार्यते, तदापि लोकव्यवहाररीत्या भाटकमर्प्यते न तु न्यूनं तच्चोक्तदिनमध्ये स्वमेवार्ण्यम् । तत्र च यद् भित्त्यादि प्राक्तनं विनश्यत्समारच्यते, तत्र यावल्लगति तावद् भाटकमध्ये वालनीयमिति, तथा लोकव्यवहारात् । यत्तु स्वकार्यार्थ
•