________________
८९
प्रथमः प्रकाशः . मालापरिधानादि कृतं तदा तावद्देवादिद्रव्यं जातम् । तच्च कथमुपभुज्यते ? । कथं वा तल्लाभादि गृह्यते पूर्वोक्तदेवादिद्रव्योपभोगदोषप्रसङ्गात् । तस्मात्सद्य एव तदर्पणीयम् यस्तु सद्योऽर्पयितुमशक्तस्तेनादावेव पक्षार्द्धपक्षाद्यवधिः स्फुटं कार्यः । अवधिमध्ये च स्वयमयँ मार्गणादि विनापि । अवध्युल्लङ्घने देवद्रव्योपभोगदोषः । उद्ग्राहणिकापि शीघ्रमभग्नतया तच्चिन्ताकारकैः स्वद्रव्यवद्देवादिद्रव्येऽपि कार्या, अन्यथा बहुविलम्बे दुर्भिक्षदेशभङ्गदौःस्थ्याद्यापातस्यापि सम्भवाद् बहूपक्रमेऽपि तदसिद्धेः । तथा च महादोषः, अत्र चिन्ताशैथिल्ये ज्ञातम् । तथा देवादिदेयं सम्यगेवायं नतु घृष्टकूट-नाणकादिना, यथा कथञ्चित् देवद्रव्योपभोगदोषापत्तेः । तथा देव-ज्ञान-साधारणसम्बन्धि-गृहाट्ट-क्षेत्र-वाटिकापाषाणेष्टका-काष्ठ-वंशक-बेल्लुक-मृत्सुधादिकं श्रीखण्डके सरभोगपुष्पादिकं पिङ्गानिका-चङ्गेरी-धूपपात्र-कलश-वासकुम्पिकादिकं श्रीकरी-चमर-चन्द्रोदय-झल्लरी-भेर्यादि-वाद्य-साबाण-सिरावकजवनिका-कम्बल-कटक-पाट-पट्ट-पट्टिका-कुण्डिका-कुम्भ-उरसकज्जल-जल-प्रदीपादिकं चैत्यशालाप्रणालाद्यागत-जलाद्यपि च स्वकार्ये किमपि न व्यापार्यम्, देवद्रव्यवत्तदुपभोगस्यापि दुष्टत्वात् । चमरसाबाणादीनां मलिनीभवनत्रुटनपाटनादिसम्भवे त्वधिकदोषोऽपि । आह च
. विधाय दीपं देवानां पुरस्तेन पुनर्नहि । .. गृहकार्याणि कार्याणि तिर्यपि भवेद्यतः ॥ यत:
जो जिणवराण हेडं धूवं दीवं च करिय नियकज्जं । __मोहेण कुणइ मूढो तिरियत्तं सो लहइ बहुसो ॥
अत्र देवदीपव्यापारणे ज्ञातम् । अतो देवदीपे लेखा न वाच्यन्ते । गृहकार्य न क्रियते । नाणकं न परीक्ष्यते । देवदीपाद्दीपः स्वकार्ये न क्रियते । देवश्रीखण्डेन तिलकं न क्रियते स्वललाटादौ । देवजलेन करौ