________________
श्राद्धविधिकौमुदीसक्षेपः प्रभास्वे मा मतिं कुर्यात्प्राणैः कण्ठगतैरपि । अग्निदग्धाः प्ररोहन्ति प्रभादग्धो न रोहति ॥ प्रभास्वं ब्रह्महत्या च दरिद्रस्य च यद्धनम् ।
गुरुपत्नी देवद्रव्यं स्वर्गस्थमपि पातयेत् ॥ . प्रभास्वं साधारणद्रव्यमित्यर्थः ।
ज्ञानद्रव्यं हि देवद्रव्यवन्न कल्पते एव श्राद्धानाम् । साधारणमपि द्रव्यं सङ्घदत्तमेव कल्पते व्यापारयितुं न त्वन्यथा । सङ्केनापि सप्तक्षेत्रीकार्य एव व्यापार्यं न मार्गणादिभ्यो देयम् । साम्प्रतिकव्यवहारेण तु यद् गुरुन्युञ्छनादिना साधारणं कृतं स्यात्तस्य श्रावकश्राविकाणामर्पणे युक्तिरेव न दृश्यते । शालादिकार्ये तु तद् व्यापार्यते श्राद्धैः । एवं ज्ञानसत्कं कागदपत्रादि साध्वाद्यर्पितं श्राद्धेन स्वकार्ये न व्यापार्यम् । स्वपुस्तिकायामपि न स्थाप्यं समधिकनिष्क्रयं विना । साध्वादिसत्कमुखवस्त्रिकादेरपि व्यापारणं न युज्यते गुरुद्रव्यत्वात् । स्थापनाचार्यजपमालादि तु प्रायः श्राद्धार्पणार्थं गुरुभिर्विहियते, तेन गुर्वर्पिततद्ग्रहणव्यवहारो दृश्यते । गुर्वादेशं विना च साधुसाध्वीनां लेखकपार्खाल्लेखनं वस्त्रसूत्रादिविहरणमपि न कल्पते, इत्याद्यपि चिन्त्यम् । तदेवं स्वल्पोपजीवनमात्रेऽपि मात्राधिकं दारुणविपाकं विज्ञाय विवेकिभिर्देवज्ञानसाधारणद्रव्याणां स्वल्पोऽप्युपभोगः सर्वथापि परिहार्यः । अत एव मालोद्घट्टन-परिधापनिकामोचनन्युञ्छनकरणादावपि तदैव द्रव्यार्पणं युक्तम् । तथासम्भवाभावेऽपि यथा यथा शीघ्रमर्पयति, तथा तथाऽधिको गुणो, विलम्बकरणे हि जातु दुर्दैवात् सर्वस्वहानि-मृत्य्वादिसम्भवे दुर्गत्यादि दुर्वारं सुश्राद्धस्यापि । अत्र देयार्पणे विलम्बकरणे दृष्टान्तः । तस्माद्देवज्ञानादेयं क्षणमपि न स्थाप्यम् । अन्यस्यापि हि देयस्य प्रदाने विवेकिभिः सर्वथा न विलम्ब्यते, किं पुनर्देवज्ञानादेः। यदा च यावता
१. जातं इति को० ह० प्र० पाठः ।