SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः जिणपवयवुड्ढकरं, पभावगं नाणदंसणगुणाणं । भुक्खंतो जिणदव्वं, अनंतसंसारिओ होइ ॥ 'जिणपवयणत्ति' - सति हि देवद्रव्ये प्रत्यहं चैत्यसमारचनमहापूजासत्कारसम्भव:, तत्र च प्रायो यतिजनसम्पातः, तद् व्याख्यानश्रवणादेश्च जिनप्रवचनवृद्धिः, एवं ज्ञानादिगुणानां प्रभावना चेत्यर्थः । जिणपयवणवुड्डिकरं, पभावगं नाणदंसणगुणाणं । रक्खंतो जिणदव्वं, परित्तसंसारिओ होइ ॥ 'परित्तति' - परिमितभवस्थितिः । जिणपवयणवुडिकर, पभावगं नाणदंसणगुणाणं । वुडुंतो जिणदव्वं, तित्थयरत्तं लहइ जीवो ॥ 'वुड्डुंतोत्ति' वृद्धिरत्र सम्यग्रक्षणाऽपूर्वापूर्वार्थप्रक्षेपादिना अवसेया । 'तित्थयरत्ति' तीर्थकरत्वलाभो देवद्रव्यवृद्धिकर्तुरर्हत् प्रवचनभक्त्यतिशयात्सुप्रसिद्ध इति तद्वृत्तौ । पञ्चदशकर्मादानकुव्यापारवर्जं, सद्व्यवहारादिविधिनैव च तद्वृद्धिः कार्या । यतः - जिणवरआणारहियं, वद्धारंता वि केवि जिणदव्वं । बुर्डेति भवसमुद्दे, मूढा मोहेण अन्नाणी ॥ ८७ केचित्तुं श्राद्धव्यतिरिक्तेभ्यः समधिकग्रहणकं गृहीत्वा कलान्तरेणापि तद्वृद्धिरुचितैवेत्याहुः । सम्यक्त्ववृत्त्यादौ सङ्काशकथायां तथोक्तेः । अत्र चैत्यद्रव्यभक्षणरक्षणादौ सागर श्रेष्ठदृष्टान्तः । यदुक्तं वेदान्तेऽपि - देवद्रव्येण या वृद्धिर्गुरुद्रव्येण यद्धनम् । तद्धनं कुलनाशाय मृतोऽपि नरकं व्रजेत् ॥ अथ ज्ञानसाधारणद्रव्ययोर्दृष्टान्तः । यदुक्तं वेदान्तेऽपि -
SR No.002257
Book TitleShraddhvidhi Kaumudi
Original Sutra AuthorN/A
AuthorVairagyarativjay
PublisherPravachan Prakashan
Publication Year2006
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy