________________
ञ्जिका. ( सर्ग ९ )
४६३
५६. करोति० । चराणामनुशाशनं किं कथयतीत्याह । नृपेण- भरतेन, इति ज्ञातुं चरा नियुक्ताः - आज्ञापिताः । इतीति किं ? तक्षशिलाक्षितीशः - बाहुबलिः किं करोति । किलेति सत्ये, तस्य- बाहुबलेः, सैन्ये - कटके, के वीरधुर्याः - भटधुरंधराः सन्ति । तस्य - महीशितुः, बलं कीदृशमस्तीति चतुभंगोन्वयः ।
५७. श्वः कुत्र० । चक्री सेनानीं किं पुनः प्राह । हे सुषेणसेनाधीश !, श्वः - आगामीवासरे, ध्वजिनीनिवेशः -- कटकाधिवासः, कुत्र - स्थाने, भावी - भविता । कटकैः स्वदेशसीमा उल्ललंघे - व्यतीता । अतः परं अरातिदेशे - शत्रुविषये, मया गम्यं - गन्तव्यं । अरि विना- शत्रुमन्तरेण बलाबलव्यक्तिः - विक्रमाविक्रमस्पष्टता, न स्यादिति चतुर्भंगोन्वयः ।
1
५८. इतीरि० । अथ - अनन्तरं स सुषेणसेनाधिपः, भूपं भरतं, निजगाद - अब्रवीत् । किं विशिष्टः सुषेण सैन्याधिपः ? सदर्पः - सगर्वः पुनः किं विशिष्टः ? इतीरितःपूर्वोक्तप्रकारेण कथितः । महौजसां - महाबलानां साहस श्रीः किंचिन्नसमुदेति ? किन्तु समुदयं प्राप्नोत्येव । कि विशिष्टा साहसश्रीः ? आत्मपराऽविमर्शास्वपरविचाररहिता ।
५६. कि काश्य० । हे क्षितीश ! दैन्यवता - कृपणत्वजुषा पंसा, किं काश्यपी - पृथ्वी, उपचर्या - गाह्या । साहसिभिः - साहसिकैः, वसुधा संगृह्यते - आदीयते । हरिः - सिंहः, एकोपि दानार्द्र कपोलभित्तीन् - मदजलाविलकटप्रदेशान् गजान्, हेलया - लीलया, किं न हन्ति, किन्तु अनुघातयत्येव ।
६०. एषां भ० । हे राजन् ! एषां वक्षमाणानां भटानां भवन्निदेशः - भवदाज्ञा, महांतरायी - महाविघ्नोस्ति । किं विशिष्टानां भटानां ? समरोत्सुकानां - रणोत्सुकानां । रवेः सूर्यस्य, पुरः - अग्रे तदीयपादाः - सूर्य संबंधिकिरणाः, भूमीभृदा कान्तिनिबद्ध कक्षाः - पर्वताक्रमणप्रह्वीभूताः, किं न सन्ति ? अपि तु सन्त्येव ।
६१. तवानु० । हे भरताधिराज ! अयं बाहुबलिः, युगादे: - वृषभध्वजस्य, तनयः - सुतः, तवानुजः-भवल्लघिष्टबान्धवः, तेन ममायमूहः- विचारः, वर्त्तते । चेदु-यदि, मम कः सांयुगीन :- रणे साधुः अयं बाहुबलिः, नाधुनास्ति । ते तव, निदेश:आज्ञा, मम विमर्श: - विचारोस्ति नान्यः । इति पंचभंगोन्वयः ।
६२. हठाद्० । हे राजन् ! रिपूणां शत्रूणां पुंसां - पुरुषाणां, सुखाय - शर्मणे भवति हठात् क्रान्ता पुंसां सुखाय भवति ।
।
विशेषात् वसुधा - धरणी, हठात् क्रान्ता, केव ? मृगाक्षी - वधूरिव । यथा वधूः धीरः- धैर्यवान् समरोत्सवे - रणमहे,