SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ पञ्जिका (सर्ग५) . ४३७ अनुहरत्सु-अनुकुर्वत्सु । किं विशिष्टं कुलवरं ? लवरंजितलोचनं-लवं_ लवमात्र रंजितानि लोचनानि येन, तत् ।। ५. दृशम० । अथ असौ सैन्यपः पत्तिषु दृशक्षिपत्-चिक्षेप । किं विशिष्टेष पत्तिषु ? उल्वणसंचररिपुविपत्तिषु-उल्वणा:-प्रकटाः संचरंत्यो रिपविपत्ता येभ्यस्ते, तेषु । गुरुकलापकलापविराजिषु-गुरुकलापा:-शराश्रयाः, तेषां कलापः-समूहस्तेन विराजते इत्येवंशीलाः, तेषु । इति च०। इति चमूपतिः चमू-सेनां, अवलोक्य नृपतिमेवमुवाच। कि विशिष्टां चमू ? प्रगुणितां-सज्जीभूतां, पुनः किं विशिष्टां ? गुणितांतकविग्रहांगुणित:-मानितः, अंतकेन समं विग्रहो यया, सा, तां। अत्रांतकप्रायो बाहुबलिः । वा अंतकरोतीति अंतकः, विग्रहस्य विशेषणं । एवमिति किं ? हे नृपते ! तु-पुनः, अयं शरदः समयो वर्तते । किं० ? तनूभवद्रसमय:मेघाल्पीयस्त्वाद् अल्पजलमयः । । ७. शरदू०। शरत्स्त्री , हे नृपते ! शुभवत:-कल्याणवतः, भवतः-तव, विनिषेवणं-पर्युपासनं विधातुं उपैति । किं विशिष्टा ? विकचवारिरुहाननशालिनी। किं विशिष्टं विनिषेवणं? विकलह-कलहरहितं, कि लक्षणा शरत् ? कलहंसशुचिस्मिता। ८. अरिषु । हे नृपते ! शरदि ते महसा-तव तेजसा समं अरिषु, दिनाधिपधाम रवितेजः, उग्रतां किं नार-किं नापत् ? च-पुनः, सुरवहा-गंगा, साधतः तव गति वितनुते । किं विशिष्टा गंगा ? रवहारिसितच्छदा-रवमनोज्ञहंसा। ६. सरभिः । अहीनमहीन ! हे अक्षीणक्षमापाल ! सुरभिगंधिविकस्वरमल्लिकावनं विराजते । किं कुर्वत् मल्लिकावनं ? इति परितर्कणं-विचारं, ददत् । इतीति किं ? अमुना विकस्वरमल्लिकावनेन, विषमायुधपत्रिण:-कामबाणाः, किं न विषमाः ? अपि तु विषमा एव । अहनि । हे राजन् ! अहनि-दिवसे, कामिनां चित्तं, अलीकुलसंश्रितांभ्रमरीकुलसंश्रितां, भ्रमरकुलाश्रितां कमलिनी, उपास्यति-सेवते । पुनर्निशिरात्री, तरुचंचिरुचं-द्रुमव्यापिकरं, एतादृशं सितरुचं उपास्यति । पुनः सितरुचं किं विशिष्टं ? जलदमुक्ततया-मेघमुक्ततया विशदं । ११. नृप ! त० । हे नृप ! नवलंभितसस्यक-नूतनप्रापितधान्यक, वनबलं-नीरशक्तिः, क्रमत:-अनुक्रमात्, अधुना तनूभवति-कृशीभवति । किं विशिष्टं वनबलं ?
SR No.002255
Book TitleBharat Bahubali Mahakavyam
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishwa Bharati
Publication Year1974
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy