________________
एवं सकलव्यक्त्यनुगतं सत्त्वं व्यञ्जनपर्यायः । प्रतिव्यक्त्यनुगतं धार्थपर्यायः॥
सकलव्यक्तिषु अनुगतं यत्सत्त्वं तदित्यर्थः । सत्त्वापेक्षयाऽल्पसङ्ख्यकव्यक्तिष्वनुगतं घटत्वादि घटादि चार्थपर्याय इत्यर्थः ॥ - ननु किमिदं पदार्थमात्रे सत्त्वं ? अत्राह
उत्पादव्ययध्रौव्यात्मकं च सत् ॥७३॥
न त्वर्थक्रियाकारित्वमात्रं सत्त्वम् । वस्तुमात्रं वर्तमानस्वपर्यायापेक्षयोत्पद्यते, पूर्वपर्यायत्वेन विनश्यति, पर्यायद्वये चैकमेव द्रव्यमनुसरतीति वस्तुमात्रस्योत्पादात्मकता, नाशात्मकता, ध्रुवता च ॥ .
- ये तु पर्यायान्नाभिमन्यन्ते, कांश्चिच्च गुणत्वेन मन्यन्ते तन्मतमुपदर्शयति१ परे तु रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वस्नेहशब्दबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराच'तुर्विशतिर्गुणाः। रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च, अन्यत्रापाकजं नित्यमनित्यं च । परिमाणमणु महद् दीर्घ इस्त्रं च । परत्वापरत्वे दिककृते कालकृते च । द्रवत्वं सांसिद्धिकं नैमित्तिकं च । शब्दो. ध्वन्यात्मको वर्णात्मकश्च । बुद्धिः स्मृतिरनुभवश्व । अनुभवो यथार्थोऽयथार्थश्च । प्रत्यक्षानुमित्युपमितिशाब्दभेदाच्चतुर्विधोऽपि । तत्करणमपि चतुर्धा । (असाधारणं कारणं करणम् ) । समवाय्यसमवायिनिमित्तभेदात् कारणं त्रिविधम् । संशयविपर्ययतर्कभेदादयथार्थानुभवस्विधा । प्रयत्नः प्रवृत्तिनिवृत्तिजीवनयोनिभेदात् त्रिधा । संस्कारो वेगो भावना स्थितिस्थापकश्च । तत्र “वायोनवैकादश तेजसो गुणा, जलक्षितिप्राणभृतां.चतुदश । दिकालयोः पञ्च षडेव चाम्बरे, महेश्वरेऽष्टौ मनसस्तथैव च" इति।।
परेविति । नैयायिका इत्यर्थः । तेषां मते 'द्रव्याश्रिता निर्गुणक्रिया