________________
Ru
मित्ततामुपयान्तीति व्यञ्जनाः । क्रमजन्मत्वाच्च पर्यायाः। विभावगुणेति । मत्यादयो ज्ञानादिगुणस्य पर्यायाः। मत्यादिपदप्रवृत्तिनिमित्तत्वाद्वयञ्जनाः । जीवद्रव्यस्यैवते । न चोत्पत्त्यनन्तरं सर्वदाऽवतिष्ठन्त इति विभावाः ॥
अथ पुद्गलपर्यायानाह
पुद्गलस्यापि द्वयणुकादयो विभावद्रव्यव्यञ्जनपर्यायाः। रसरसान्तरगन्धगन्धान्तरादयो विभावगुणव्यञ्जनपर्यायाः। अविभागिपुदगलपरमाणवः स्वभावद्रव्यव्यञ्जनपर्यायाः। वर्णगन्धरसैकैकाऽविरुद्धस्पर्शद्वये च स्वभावगुणव्यञ्जनपर्यायाः ॥ - द्वयणुकादय इति । ते च स्वोत्पत्यनन्तरं न सर्वकालमवतिष्ठन्त इति ते पुद्गलद्रव्यस्य विभावाः । क्रमभावित्वात्पर्यायाः । द्रव्यस्यैवैते । द्वयणुकादिशब्दप्रवृत्तिनिमित्तत्वाच्च व्यञ्जना इति । रसरसान्तरेति । एते गुणाः । क्रमजन्मत्वात्पर्यायाः । न च सर्वदाऽवतिष्ठन्तेऽपि तु परावर्तन्त इति विभावाः । पुद्गलद्रव्यस्येमे । मधुरकट्वादिसंज्ञां भजन्तीति व्यञ्जनाः । अविभागीति । यद्यपि पुद्गलद्रव्ये परमाणूनां गमनागमनं चलत्येव, तथापि परमाणुत्वेन ते पुद्गले सन्त्येव सर्वदेति अविभागिपुद्गलपरमाणवः पुद्गलद्रव्यस्य स्वभावाः । गमनागमनादिपरिणामवत्त्वात् पर्यायाः । पुद्गलद्रव्यस्यैवैते । परमाणुपदप्रवृत्तिनिमित्ततया च व्यञ्जनाः । वर्णगन्धेति । प्रत्येकं पुद्गले एको वर्ण एको गन्ध एको रसोऽविरुद्धस्पर्शयुगलं च सदैवाऽवतिष्ठत एवेति स्वभावोऽयं वर्णादिगुणानाम् । स च वर्णादीनां गुणानाम् । अन्यान्यरूपेण परिणमनात्पर्यायः । वर्णादिसंज्ञाहेतुत्वाद्वयञ्जन इति ॥
अन्यानपि द्रव्यस्य पर्यायान् दर्शयतिएवमेकत्व-पृथक्त्व-सङ्ख्या-संस्थान-संयोग-विभागादयोऽपि पर्यायाः॥ ननु व्यञ्जनपर्यायः कः ? कश्च तद्विपरीतोऽर्थपर्यायः १ अत्राह