________________
अथ पर्यायखण्डः। ___ गुणानामपि पर्यायत्वेन गुणखण्डमनुक्त्वा पर्यायखण्डमेवाह । पर्यायलक्षणं तु पूर्वमेवोक्तं, अधुना तस्य प्रकारान् आह
पर्यायो द्विविधः, क्रमभावी सहभावी च ॥७१॥ .. तत्र सहभाविपर्याया गुणा, यथाऽऽत्मनो विज्ञानव्यक्तिशक्त्यादयः। क्रमभाविनः पर्यायास्त्वात्मनो यथा सुखदुःखशोकहर्षादयः ॥७२॥
गुणाः यावद्रव्यभाविनः । क्रमभाविपर्यायास्त्वयावद्रव्यभाविन इति भेदः॥ 'पर्यायस्य चातुर्विध्यमाह
पर्याया अपि स्वभावविभावाभ्यां द्रव्यगुणाभ्यां च चतुर्भेदाः। तथाहि-स्वभावद्रव्यव्यवनपर्यायाश्चरमशरीरात् किश्चिन्यूनसिद्धपर्यायः। स्वभावगुणव्यञ्जनपर्याया यथा जीवस्यानन्तचतुष्टयरूपाः। विभावद्रव्यव्यञ्जनपर्याया गत्यादयः । विभावगुणव्यञ्जनपर्याया मत्यादयः॥
द्रव्यस्य स्वभावात्मकाः, द्रव्यस्य विभावात्मकाः, गुणस्य स्वभावात्मकाः, गुणस्य विभावरूपाः इति चतुर्धा पर्यायाः। चरमेति । सिद्धस्य-सिद्रिगतिमाप्तस्य जीवस्यैष स्वभाव एव यत् स चरमशरीरात् किञ्चिन्न्यूनपरिमाणो भवति । स च पर्यायः सिद्धात्मकजीवद्रव्यस्यैव । स च क्रमभावित्वात्पर्यायः, भवनानन्तरं सर्वदा तथैवावस्थानाच्च व्यञ्जनः, 'स्थूलाः कालान्तरस्थायिनः शब्दसङ्केतविषयाः व्यञ्जनपर्याया' इति वचनात् । एवं च सिद्धस्य स्वचरमशरीरात् किञ्चिन्न्यूनत्वं स्वभावद्रव्यव्यञ्जनपर्यायः । जीवस्यानन्तेति । ज्ञानादयो गुणा जीवस्य स्वभावा एव । उत्तरकालं सर्वदाऽवतिष्ठन्ते चेति व्यञ्जनः, क्रमभावित्वाच्च पर्यायाः। विभावद्रव्येति । देवगत्यादय उत्पत्त्यनन्तरं सदैव नावतिष्ठन्त इति विभावाः । जीवद्रव्यत्यैवैते । देवादिपदप्रवृत्तिनि